पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अभिज्ञवाचनाधिकरणम् ] तृतीयोऽध्यायः । २२७ अस्मिन्मत्रे "आयुर्मे देहि” इति फलस्य स्वात्मसम्बन्धः प्रतीयते । स च यज- मानस्य युक्तः, नाऽध्वर्योः । तस्मात् कामवन्मन्त्रोऽपि याजमानः ॥ इति सप्तमं प्रोत्साहनमन्त्राणां याजमानत्वाधिकरणम् ॥ ७ ॥ अथाऽष्टमं व्याम्नातानामुभयार्थत्वाधिकरणम् ॥ ८ ॥ अष्टमाधिकरणमारचयति- वाजस्य मेत्यमुं ब्रूयादेको द्वौ वा कृतार्थतः। एकः काण्डद्वये पाठादध्वर्युस्वामिनावुभौ ॥ १२ ॥ दर्शपूर्णमासयोः-(१)"वाजस्य मा प्रसवेन” इत्ययं मन्त्रोऽध्वर्युकाण्डे यज- मानकाण्डे चाऽऽम्नातः । तत्रैकेन पठिते सति मन्त्रस्य चरितार्थत्वादितरस्तं न पठेत् इति चेत्- मैवम् ; काण्डान्तरपाठवैयर्थ्यप्रसङ्गात् । तस्मादुभाभ्यां पठनीयः । तयोः पठतो- राशयभेदोऽस्ति । 'अनेन मन्त्रेण प्रकाशितमर्थमनुष्ठास्यामि' इत्यध्वर्युर्मनुते । 'अत्र न प्रमदिष्यामि' इति यजमानः ॥ इत्यष्टमं घ्याम्नातानामुभयार्थत्वाधिकरणम् ॥ ८ ॥ अथ नवममभिज्ञवाचनाधिकरणम् ॥ ६ ॥ नवमाधिकरणमारचयति- वाचयेत्स्वामिनं ज्ञाज्ञौ वाचनीयौ ज्ञ एवं वा । अविशेषादुभौ, ज्ञस्य स्वामित्वाद्वाचयेदमुम् ॥ १३ ॥ वाजपेये श्रूयते-“क्लृप्तीर्यजमानं वाचयति” इति । (२)"आयुर्यज्ञेन कल्पताम्" इत्यादयो मन्त्राः क्लृप्तयः । तत्र मन्त्रतदर्थाभिज्ञमनभिज्ञं चोभावपि वाचयेत् ; वि. द्वांसं वाचयेत् इत्येवं विशेषस्याऽश्रवणात् । अनभिज्ञं तदैव शिक्षयित्वाऽपि वाचयितुं 7 १. तै. सं. १. १. १३. १. ( अध्वर्युकाण्डे ) तै. सं. १. ६. ४. २. ( यज- मानकाण्डे ) तै. सं. ४. ७. १०. २, काठ. सं. १४. १. २.