२२६ सविस्तरायां जैमिनीयन्यायमालायां [ अ. ३. पा. ८.अधि.७, - अथ षष्ठं गुणकामानां याजमानत्वाधिकरणम् ॥ ६ ॥ षष्टाधिकरणमारचयति- वृष्टिकामी सदो नीचैर्मिनुयादिति कामना । अध्वर्योः स्वामिनो वाऽऽद्यो वाक्यान्मातुस्तदुच्यते ।। ६ ॥ परस्मैपदतोऽध्वर्युव्यापारस्य परार्थता । प्रतीताऽतो वाक्यबाधे तपोवत्स्वामिनोऽस्तु तत् ॥ १० ॥ ज्योतिष्टोमे श्रूयते-(१)“यदि कामयेत वर्षकुः पर्जन्यः स्यात् इति, नीचैः सदो मिनुयात्” इति । यथा पुरस्तात्पश्चाच्चाऽवस्थितौ हविर्धानप्राचीनवंशावुच्चैः, तथा सदो नोच्चं, किन्तु नीचैः कार्यम् इत्यर्थः । अत्र वृष्टिकामनाऽध्वर्योर्युक्ता, 'यः काम- येत् , स मिनुयात्' इति वाक्येन कामयितृमात्रोरेकत्वावगमात् । मातृत्वं चाऽध्वर्योरि- त्यविवादम् । तस्मात् स एव कामयिता इति चेत्- मैवम् ; 'मिनुयात् इति परस्मैपदेनाऽध्वर्युव्यापारफलस्य परगामिता प्रतीयते । ततो वृष्टिलक्षणफलस्य यजमानगामित्वात्परस्मैपदश्रुत्या वाक्यं बाधित्वा कामस्य यजमानकर्तृकत्वं द्रष्टव्यम् । 'यजमानकामितां वृष्टिं पर्जन्यः सम्पादयतु' इत्येव योऽ. ध्वर्युः कामयते, स नीचैर्मिनुयात् इति वाक्यं व्याख्येयम् । “एवं विदुद्गाताऽऽ. त्मने वा यजमानाय वा यं कामं कामयते, तमागायति" इति ऋत्विजोऽपि काम इति चेत्-तर्हि तस्मिन्नुद्गीथोपासने(२) वचनादृत्विजोऽपि फलमस्तु । इति षष्ठं गुणकामानां याजमानत्वाधिकरणम् ॥ ६ ॥ अथ सप्तमं प्रोत्साहनमन्त्राणां याजमानत्वाधिकरणम् । ७ ॥ सप्तमाधिकरणमारचयति- आयुर्दा इति मन्त्रोक्तिः कस्याऽध्वर्योः समाख्यया । तद्बाधे लिङ्गतः स्वामिगामिता कामवन्मता ॥ ११ ॥ इदमाम्नायते—(३) "आयुर्दा अग्नेऽस्यायुर्मे देहि" इति । तस्यैतस्य मन्त्र- स्य पाठोऽध्वर्योर्यजमानस्य वा इत्ययं संशयः 'कस्य' इत्यनेन पदेन सूचितः । १. मै. सं. ३. ८. ९. ग्रन्थकारेणैव विवृतमिदं वाक्यम् । २. छान्दोग्योपनिषदि समाम्नातमिदमुद्गीथोपासनम् । ३. तै. सं. १. ५. ५. ३.
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२२७
दिखावट