हिरण्यमालित्वाद्यधि०] तृतीयोऽध्यायः। २२५ ति । पीवा दीक्षते, कृशो यजते । यदस्याऽङ्गानां मीयते जुहोत्येव तदिति विज्ञायते" इति। न हि दुःखरूपं तपो विना दुःखप्रदं पापं नश्यति । यथा पाटनमन्तरेण विषव्रणानां नोपशान्तिः, तद्वत् । तस्मात् वपनादिसंस्कारवत्तपोऽपि यजमानस्यैव ॥ इति चतुर्थ तपसो याजमानताधिकरणम् ॥ ४ ॥ , - अथ पञ्चमं हिरण्यमालित्वाद्यधिकरणम् ॥ ५ ॥ पञ्चमाधिकरणमारचयति- हिरण्यमालिताद्यास्तु संस्कारा वचनान्मताः । ऋत्विजां ते यथाख्यानं कर्तव्या निखिलैरुत ॥ ७ ॥ आद्य आख्यावशान्मैवं सर्वसंनिधिपाठतः । प्रतिमुख्यं गुणावृत्तेः कर्तव्या निखिलैरपि ॥ ८ ॥ वाजपेये श्रूयते-(१)"हिरण्यमालिन ऋत्विजः प्रचरन्ति" इति । श्येने श्रूयते-(२)“लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्ति” इति । यद्यपि हिरण्यमालित्वादीनां संस्कारत्वाद्यजमानविषयत्वं पूर्वन्यायेन प्राप्तम् , तथाऽपि वचनादय मृत्विक्संस्कारः। तत्र हिरण्यमालित्वं यजुर्वेदोक्तत्वादध्वर्यूणामेव, लोहितो- ष्णीषादिकं सामवेदोक्तत्वादुद्गातॄणामेव, इति समाख्यावशादभ्युपेयम् इति चेत्- मैवम् ; 'हिरण्यमालिन ऋत्विजः प्रचरन्ति' इति सर्वेषामृत्विजां संनिधौ पठ्यमानो हिरण्यमालित्वसंस्कारः संनिधिना समाख्यां बाधित्वा सर्वैरप्य॒त्विग्भिः सम्बध्यते । किंच संस्कार्यत्वादृत्विजां प्राधान्ये सति प्रतिप्रधानं गुणावृत्या सर्वेषामप्यृत्विजां हिर- ण्यमालित्वादिसंस्कारोऽभ्युपेतव्यः ॥ इति पञ्चमं हिरण्यमालित्वाद्यधिकरणम् ॥ ५ ॥ . १. हिरण्यनिर्मिताः मालाः हिरण्यमालास्तद्वन्तः हिरण्यमालिनः । प्रचरन्ति ऋत्विक्कार्यं कुर्युः । २. ( आप. श्री. २२. ४. २३.) शिरोवेष्टनार्थ वस्त्रमुष्णीषः । सः, परिधानीयं वस्त्रं च श्येनयागे रक्तवर्णं भवेत्विजां कर्मकरणकाले ।। एवं उपवीतस्थाने निवीतमपि धार्य मिति ।
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२२६
दिखावट