२२४ सविस्तरायां जैमिनीयन्यायमालायां [ अ.३. पा. ८. अधि ४. वा एषा त्वगमेध्या यत्केशश्मश्रु । मृतामेव त्वचममेध्यामपहत्य यज्ञियो भूत्वा मेधमु- पैति" इति। न ह्यध्वर्युवपनेन यजमानगता मृता त्वगपैति । योग्यस्य हि कर्माधिकारे सति पश्चात्प्रयासरूपेषु व्यापारेषु स्वयमशक्तः सन् कर्मकरानृत्विजः परिक्रीणाति । लो- केऽपि रोगिणः स्वामिन औषधाद्यानयन एव भृत्यो जीवितदानेन परिक्रीयते । न तु तदौषधं भृत्यः सेवते । तस्मात् इतरक्रियर्त्विजाम् , संस्कारस्तु यजमानस्य क्व- चित्तु वचनादृविजामपि(१) संस्कारोऽस्तु ॥ इति तृतीयं वपनादिसंस्काराणां याजमानताधिकरणम् ॥३॥ । क. - अथ चतुर्थ तपसो याजमानताधिकरणम् ॥ ४ ॥ चतुर्थाधिकरणमारचयति- नाऽश्नाति द्वयहमित्येतत्तपः कस्य तयोर्द्वयोः । दुःखत्वाद्भोक्त्रसंस्कारादध्वर्योयुज्यते तपः ॥५॥ फलान्तरायपापस्य नाशकत्वेन संस्कृतिः । लिङ्गात्तपः स्वामिगामि संस्कारान्तरवत्ततः ॥ ६॥ ज्योतिष्टोमे- "यहं नाऽइनाति" "त्र्यहं नाऽश्नाति" इत्यादिनोक्तं तपोऽ- ध्वर्योर्युक्तम् , तस्य दुःखात्मकत्वेन परिक्रीतपुरुषैः कर्तुमुचितत्वात् । दुःखत्वादेव फल- भोक्तृसंस्कारत्वाभावाद्यजमानस्य न युक्तम् इति चेत्- मैवम् ; भाविनः सुखरूपस्य फलस्य प्रतिबन्धकं दुःखजनकं यत्पापं तस्य नाश- कत्वेन दुःखरूपस्याऽपि तपसः स्वामिसंस्कारत्वसम्भवात् । अस्मिन्नर्थे वाक्यशेषगतं लिङ्गं कल्पसूत्रकारेणैवमुदाहृतम्-(२)“यदा वै दीक्षितः कृशो भवति, अथ मेध्यो भवति । यदाऽस्मिन्नन्तर्न किञ्चन भवति, अथ मेध्यो भवति । यदाऽस्य कृष्णं चक्षुषोर्नश्यति, अथ मेध्यो भवति । यदाऽस्य त्वचाऽस्थि संधीयते, अथ मेध्यो भव- अपरिशुद्धा मृततुल्या त्वगेव । वपनकरणेन तादृशीं अपरिशुद्धां त्वचं परित्यज्य यज्ञार्हो भूत्वा यज्ञं प्राप्नोति इति ब्राह्मणार्थः । १. हिरण्यमालित्वादिः अत्रैव पञ्चमाधिकरणे वक्ष्यमाणः । २. आप. श्री. १०. १४. ९, १०. त्वचाऽस्थि सन्धीयते शुष्कमांसो भवतीत्य- थः । कृष्णं चक्षुषोनश्यति पक्ष्मसु लीने तारके न दृश्येते इत्यर्थः । दीक्षादशायां पृथु- लस्य व्रतैर्यदङ्ग क्षीणं भवति तदग्नावेव हुतं भवेदित्यर्थः । अतः कर्शिताङ्गेनैव यष्ट- व्यमिति भावः ।
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२२५
दिखावट