पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वपनादिसंस्काराणां याजमानताधि० ] तृतीयोऽध्यायः । २२३ मैवम्; ऋत्विजां परिक्रयणोत्तरकालीनानां तत्कर्तृत्वासम्भवेन यजमानस्यैव तत्क- र्तृत्वात् ॥ इति प्रथमं दक्षिणादानस्य स्वामिकर्तृकत्वाधिकरणम् ॥ १ ॥ अथ द्वितीयं वरदानस्याऽध्वर्युकर्तृकत्वाधिकरणम् ॥२॥ द्वितीयाधिकरणमारचयति- इष्टकावरदानं किं स्वामिनः स्यादुतर्त्विजः । स्वामिनः पूर्ववन्मैवमध्वर्योर्वचनादयम् ॥ ३ ॥ (१)“य एतामिष्टकामुपदध्यात्, स त्रीन् वरान्दद्यात्"इत्युपधातुरध्वोर्गोत्रय- दानं वाचनिकम् । न ह्यस्ति वचनस्याऽतिभारः ॥ इति द्वितीयं वरदानस्याऽध्वर्युकर्तृकत्वाधिकरणम् ॥ २ ॥ . अथ तृतीयं वपनादिसंस्काराणां याजमानताधिकरणम् ॥ ३ ॥ तृतीयाधिकरणमारचयति- संस्कारा वपनाद्याः किमध्वर्योः स्वामिनोऽथवा । अर्ध्वयोस्तत्र शक्तत्वात्तद्वेदोक्तेश्च तस्य ते ॥ ४ ॥ संस्कारैर्योग्यतां प्राप्य स्वकार्यं कर्तुमृत्विजः । क्रीणात्यतः क्रिया तेषां संस्क्रिया यजमानगा ॥ ५ ॥ (२)"आप उन्दन्तु जीवसे” इत्याद्याः संस्कारमन्त्राः । तद्विधयश्चाऽध्वर्युवेदे समा- म्नाताः (३)"केशश्मश्रु वपते, नखानि निकृन्तते” इति । शक्तश्चाऽध्वर्युर्वपनादौ । तस्मात् तस्याऽध्वर्योस्ते वपनादिसंस्कारा इति चेत्- मैवम् वपनादिसंस्कारा यजमानगतमालिन्यमपनीय यागयोग्यतामुत्पादयितुं क्रियन्ते । तथा च ब्राह्मणम्-(४)"केशश्मश्रु वपते नखानि निकृन्तते । मृता १. तै. सं. ५. २. ८. यः एतां यजुष्कृतासंज्ञिकामिष्टकामुपदध्यात् स अध्वर्युः गोत्रयं यस्मै कस्मैचित् दद्यादित्यर्थः । २. तै. सं. १. २. १. १. ३. तै. सं. ६. १. १. १. ४. केशश्मश्रुवपनं नखनिकृन्तनं च कर्तव्यम् । केशाश्च श्मश्रूणि चेति यत् सा -