पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२२ सविस्तरायां जैमिनीयन्यायमालायां [ अ.३.पा.८.अधि.१ - श्येनयागः (१)सामवेदे समाम्नात इति तत्रत्याः सर्वे पदार्था उद्गात्राऽनुष्टेयाः, बहिष्पवमानाज्यपृष्ठादिस्तोत्रेष्विवौद्गात्रत्वसमाख्यायाः श्येनेऽपि समत्वात् । तथा यजुर्वेदे समाम्नातो वाजपेयः सर्वोऽप्यध्वर्युणैवाऽनुष्ठेयः, समाख्यावशादिति प्राप्ते- ब्रूमः-श्येनवाजपेयौ हि ज्योतिष्टोमविकारौ । तत्र चोदकस्तत्तत्पदार्थांस्तैस्तैः पुरुषैरनुष्ठेयतया समर्पयति । अङ्गेष्वतिदिष्टेषु पश्चात्साङ्गप्रधानानुष्ठापकस्य प्रयोगव- चनस्य प्रवृत्तिः । प्रयोगवचनाधीना तु समाख्याऽत्यन्तजघन्या । ततः प्रवलचोदकव- शात्प्रकृताविव नानाविधाः कर्तारः स्वस्वधर्मेषु व्यवतिष्ठन्ते ॥ इति त्रयोविंशं श्येनादेरनेककर्तृकत्वाधिकरणम् ॥ २३ ॥ इति श्रीमाधवाचार्यविरचिते जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य सप्तमः पादः ॥ ७ ।। अथ तृतीयाध्यायस्याऽष्टमः पादः ।। तत्र प्रथमं दक्षिणादानस्य स्वामिकर्तृकत्वाधिकरणम् ॥ १॥ अष्टमपादे प्रथमाधिकरणमारचयति- दक्षिणादिपरिक्रीतिर्ऋत्विजः स्वामिनोऽथवा । परिक्रयः समाख्यानादृत्विजः स्याद्यथेतरत् ॥ १॥ परिक्रयात्पुराऽध्वर्युहोत्रादीनामभावतः । परिक्रयणकर्तृत्वं यजमानस्य नर्त्विजः ॥२॥ दक्षिणादानेन कर्मकराः परिक्रेतव्याः । तत्र हविस्त्यागव्यतिरिक्तं सर्वमार्त्विज्यमि- ति निर्णीतम् । दक्षिणा च द्वादशशतरूपाऽध्वर्युवेद उद्गातृवेदे च (२) समाम्नाता । (३)अन्वाहार्यदक्षिणाऽध्वर्युवेदे । ततः समाख्यया परिक्रेतृत्वमृत्विज इति चेत्- १. 'इयेनेनाऽभिचरन् यजेत' इति वाक्यं श्येनयागविधायकम् । तच सामवेदीय- षड्विशब्राह्मणान्तर्गतम् । अतः श्येनयागस्य सामवेदीयत्वम् । २. 'गौश्चाऽश्वश्चाऽश्वतरश्च गर्दभश्चाऽजाश्चाऽवयश्च माषाश्च तिलाश्च मुद्गाश्च तस्य द्वादशशतं दक्षिणा' इति सोमयागे दक्षिणाविधायकं वाक्यम् । तच्च यजुर्वेदे सामवेदे चोभयत्राऽपि श्रुतमिति भावः । ३. अन्वाहार्यः ओदनविशेषः ।