पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्येनादेरनेक कर्तृकत्वाधि० ] ० तृतीयोऽध्यायः। २२१ अथ द्वाविंशं चमसहोमेष्वध्वर्युकर्तृत्वाधिकरणम् ॥२२॥ द्वाविंशाधिकरणमारचयति- चमसैश्चमसाध्वर्युर्जुहोत्यध्वर्युरेव वा । संज्ञाविशेषादाद्योऽस्तु, मैवमध्वर्युसंज्ञया ॥ ३२ ॥ विशेषस्याऽनपेक्षत्वात्तेनाऽन्यस्या अपेक्षणात् । अध्वर्युर्जुहुयाच्छक्तेस्तदशक्तौ परोऽपि वा ॥ ३३ ॥ 'चमसाध्वर्युः' इत्येवंविधसंज्ञाविशेषाचमसाध्वर्यव एव चमसैर्जुहुयुरिति चेत्- मैवम् ; अध्वर्युसंज्ञाया निरपेक्षत्वेन प्रबलत्वात् । केवलाध्वर्यों चमसाध्वर्युष चाऽनुगतोऽध्वर्युशब्दः सामान्यरूपः । चमसशब्दस्तु चमसाध्वर्युष्वेवेति विशेषरूपः । तं च विशेषमनपेक्ष्यैवाऽध्वर्युशब्द ऋत्विक्संज्ञारूपेण वर्तितुं प्रभवति । चमसशब्दस्तु सामान्यवाचिनमध्वर्युशब्दमपेक्ष्यैव पुरुषेषु संज्ञा भवति । तथा सति 'आध्वर्यव होमः' इत्यनया निरपेक्षया प्रबलया समाख्ययाऽध्वर्युरेव सत्यां शक्तौ चमसैर्जुहुयात् । ग्रहहोमव्यापृतत्वेन कदाचिदशक्तौ चमसाध्वर्यवो जुहुयुः ॥ इति द्वाविंशं चमसहोमेष्वध्वर्युकर्तृत्वाधिकरणम् ॥ २२ ॥ - अथ त्रयोविंशं श्येनादेरनेककर्तृकत्वाधिकरणम् ॥ २३ ॥ त्रयोविंशाधिकरणमारचयति- श्येन उद्गातृवेदोक्तो वाजपेयो यजुष्यम् । उद्गात्राऽध्वर्युणा कार्यौ यथाप्रकृति वाऽग्रिमः ॥ ३४ ॥ आख्याविशेषादाख्यायाः पूर्वभावी हि चोदकः । प्रकृताविव कर्तारस्तत्तद्धर्मे व्यवस्थिताः ॥ ३५ ॥ इति श्रीमाधवाचार्यविरचितायां जैमिनीयन्यायमालायां तृतीयाध्यायस्य सप्तमः पादः ।।