पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२० सविस्तरायां जैमिनीयन्यायमालायां [अ.३.पा.७.अधि.२१ अथैकविंशं प्रैषानुवचनस्य मैत्रावरुणकर्तृत्वाधिकरणम् ॥ २१ ॥ एकविंशाधिकरणमारचयति- यन्मैत्रावरुणः प्रेष्यत्यनु चाऽऽहेति बाधनम् । हौत्रादिकसमाख्यायास्तत्सर्वत्रोत कुत्रचित् ।। ३० ।। आद्योऽस्तु वचनान्मैवं साहित्योक्त्युपलम्भनात् । प्रैषानुवचने यत्र सहिते तत्र बाधनम् ॥ ३१ ॥ अग्नीषोमीयपशौ श्रूयते-(१)“मैत्रावरुणः प्रेष्यति चानु चाऽऽह” इति । तदेतद्वाक्यं प्रैषानुवचनयोर्मैत्रावरुणकर्- त्रावरुणकर्तृकतां विदधाति । तेन च वाक्येन समाख्या बाध्यते । “अग्नये समिध्यमानायाऽनुब्रूहि" "यूपायाऽज्यमानायाऽनुब्रूहि” इत्यादिप्रै- षाणामध्वर्युकर्तृकत्वदर्शनात् 'आध्वर्यवाः प्रैषाः' इत्यस्ति याज्ञिकानां समाख्या । तथा (२)"प्र वो वाजा अभिद्यवः” (३)"अञ्जन्ति त्वामध्वरे देवयन्तः” इत्याद्यनुवच. नानां होतृकर्तृकत्वदर्शनात् 'अनुवचनानि हौत्राणि' इति याज्ञिकसमाख्या । प्रैषानु- वचने च द्विविधे-समस्ते व्यस्ते च । पूर्वोदाहृते व्यस्ते । (४)"होताऽयक्षदग्नि समिधा' इत्याद्यनुवचनमन्त्रस्याऽन्ते "होतर्यज' इति प्रेष आम्नातः। एते प्रैषा- नुवचने समस्ते । तेषु च व्यस्तसमस्तप्रैषानुवचनेषु सर्वत्र प्रबलेन वाक्येन समाख्यां बाधित्वा होतृकर्तृकत्वमध्वर्युकर्तृकत्वं च परित्यज्य मैत्रावरुणकर्तृकत्वमेवाऽभ्युपेयम् इति प्राप्ते- अभिधीयते-"प्रैष्यति चानु चाऽऽह” इति चकारद्वयेन प्रैषानुवचनयोः समु- च्चयो वाक्येऽस्मिन्नुपलभ्यते । ततः समुच्चितयोरेव समाख्यावाधनम् । व्यस्तयोस्तु यथासमाख्यं होत्रादिकर्तृकत्वमेवाऽभ्युपेयम् ॥ इत्येकविंशं प्रैषानुवचनस्य मैत्रावरुणकर्तृत्वाधिकरणम् ॥ २१ ॥ Man १. मैत्रावरुणाख्यो होतुरनन्तर ऋत्विक् श्रेषमपि कुर्यात् अनुवचनमपि पठेत् इत्यर्थः । २. तै. ब्रा ३. ५. ३. दर्शपूर्णमासयोः सामिधेन्यनुवचनमन्त्रोऽयम् । ३. तै. वा ३. ६. १. पशुयागे यूपाजनानुवचनमन्त्रोऽयम् । (ते. वा. ३. ६. २. १.) "होताऽयक्षदग्निंसमिधा सुषमिधा समिद्धं नाभा पृथिव्यास्सङ्गथे वामस्य । वर्मन् दिव इडस्पदे वेत्त्वाज्यस्य होतर्यज” इति प्रैषानु- वचनमन्त्रोऽयं समस्तः । "