पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२८ सविस्तरायां जैमिनीयन्यायमालायां [अ. ३. पा. ८. अधि.१०. शक्यत्वात् इति चेत्- मैवम् ; अध्ययनविधिबलादधीतवेदस्य विदितवेदार्थस्यैव यजमानत्वात् । त- स्मात् अभिज्ञमेव वाचयेत् ॥ इति नवममभिज्ञवाचनाधिकरणम् ॥ ९ ॥ - अथ दशमं द्वादशद्वन्द्वानामाध्वर्यवत्वाधिकरणम् ॥ ५० ॥ दशमाधिकरणमारचयति- वत्सं चौपसृजत्तद्वदुखां चाऽधिश्रयेदिति । द्वादशद्वंद्वकर्मैतत्स्वामिनो वेतरस्य वा ॥ १४ ॥ आद्यः पाठात्स्वामिकाण्डे तादर्थ्येन परिक्रयात् । महाकाण्डोक्तितोऽन्त्योऽस्तु द्वंद्वतैवाऽत्र कीर्त्य॑ते ।। १५ ।। दर्शपूर्णमासयोर्याजमाने काण्डे श्रूयते-(१)"द्वादश द्वंद्वानि, दर्शपूर्णमासयो- स्तानि सम्पाद्यानीत्याहुः वत्सं चोपावसृजति, उखां चाऽधिश्रयति अव च हन्ति, दृषदौ च समाहन्ति” इत्यादि । तत्र गां दोग्धुं वत्सोपावसर्जनमेकं कर्म, दोहनेन संपादितं क्षीरं धारयितुं पिठरस्थापनमपरं कर्म, तदेतदुभयमेकं द्वंद्वम् । -व्रीहीणामवघा- तः दृषदुपलयोः पाषाणान्तरेण समाघातः; इत्येतदुभयं द्वितीयं द्वंद्वम् । एवं द्वादश कर्मद्वंद्वान्यनुष्टेयान्याम्नातानि । तेषां याजमाने काण्डे पठितत्वात्समाख्यया यजमानेन तान्यनुष्टेयानि इति प्राप्ते- ब्रूमः यजमानस्य यानि कार्याणि, तान्यनुष्टातुमेव परिक्रीता ऋत्विजः । किञ्च यजुर्वेदे याजमानमिदमवान्तरकाण्डं, महाकाण्डं त्वाध्वर्यवमेव । तत्रैवैते वत्सापाकर- णादयो धर्मा आम्नाताः । तस्मादध्वर्युरेव ताननुतिष्ठेत् । याजमाने तु काण्डे न तेषा- तथा- १. यानीमानि वक्ष्यमाणानि युग्मानि तानि दर्शपूर्णमासयोः सम्पादनीयानि इति ब्रह्मवादिनः कथयन्ति । तेषामेव स्वरूपं विव्रियते-वत्समित्यादिना । गां दोग्धुमध्व- युः वत्सं बन्धनान्मोचयेत् । क्षीरं श्रपयितुं गार्हपत्यस्योपरि उखां स्थापयेत् । इदमेकं द्वन्द्वम् । व्रीहीनवहन्यात् । तण्डुलपेषणार्थ दृषदुपले शम्यया समाहन्यात् । इदमपरं द्वन्द्वम् । एवं रीत्या द्वन्द्वतासम्पादनं कर्तव्यमिति । एवं पेषणार्थं दृषदि तण्डुलाधि- वापः । पुरोडाशश्रपणार्थ अग्नौ कपालोपधानमिति तृतीयं द्वन्द्वम् । एवमन्यान्यपि ब्राह्मणतोऽवगन्तव्यानि । यावदुपात्तमिह दर्शितम् ।