पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ऋत्विनियमाधिकरणम् ] तृतीयोऽध्यायः। २१७ ऋत्विक्शब्दस्य प्रवृत्तिनिमित्तमृतौ यजनम् । तच्च ब्रह्मादिष्विव चमसाध्वर्युष्व प्यस्ति । तस्मात् सर्वेषामृत्विङ्नाम समानमिति चेत्-- मैवम् ; संख्याश्रुतिविरोधात् । “सौम्यस्याऽध्वरस्य यज्ञकतोः सप्तदशर्त्विजः" इति श्रूयते । तस्मात् योगमनतिक्रम्य शास्त्रीयरूढिमप्याश्रित्य केषुचिदेवैतन्नामेत्यवग- न्तव्यम् ॥ इति षोडशं सर्वेषामृत्विक्छब्दवाच्यताधिकरणम् ॥ १६ ॥ 7 , अथ सप्तदशं ब्रह्मादीनामृत्विक्त्वनियमाधिकरणम् ॥ १७ ॥ सप्तदशाधिकरणमारचयति- संख्याता अपि ये केचिन्नियता वाऽविशेषतः । आद्यो, न दक्षिणादाने दीक्षायां च विशेषतः ॥ २६ ॥ ये सप्तदश संख्याताः, ते ब्रह्मादिषु चमसाध्वर्युषु च ये केचिदिच्छया ग्रहीत. व्याः । विशेषस्याऽश्रवणात् इति चेत्- मैवम् ; दक्षिणावाक्ये दीक्षावाक्ये च विशेषश्रवणात् । 'ऋत्विग्भ्यो दक्षिणां ददाति' इत्युक्त्वा तद्विशेषः श्रूयते-(१) अग्नीधे ददाति” (२)“ब्रह्मणे ददाति” इत्यादिना । दीक्षावाक्यं च सत्रप्रकरणे “ये यजमानास्त ऋत्विजः” इत्युक्त्वाऽनन्तर- मेवमाम्नायते-(३)“अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति, तत उद्गातारम् , ततो होतारम् , ततस्तं प्रतिप्रस्थाता दीक्षयित्वाऽर्थिनो दीक्षयति-ब्राह्मणाच्छंसिनं ब्रह्मणः, प्रस्तोतारमुद्गातुः, मैत्रावरुणं होतुः । ततस्तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्ष- यति, अग्नीधं ब्रह्मणः, प्रतिहर्तारमुद्गातुः, अच्छावाकं होतुः । ततस्तमुन्नेता दीक्षयित्वा पादिनो दीक्षयति, पोतारं ब्रह्मणः, सुब्रह्मण्यमुद्गातुः, ग्रावस्तुतं होतुः । ततस्तमन्यो ब्रा. १, २. तै. सं. ६.६. १. ५. ३. ( मा. श. ब्रा. १२. १. १. १०) सत्रे सर्वेषां यजमानत्वेऽपि तत्तत्कार्य- स्य तेषु तेषु विभक्तत्वेन कार्याणि नियमितानि तैस्तैः कर्तव्यानि । तत्र यजमा- नकार्यकता गृहपतिरित्युच्यते । अध्वर्युः तं प्रथमतो दीक्षयित्वाऽनन्तरं ब्रह्माणं दी- क्षयेत् । एवं गृहपतिब्रह्मोद्गातृहोतॄन् चतुरो दीक्षयित्वा तावतैव विरमेदध्वर्युः । तत अध्वर्योरनन्तरः प्रतिप्रस्थाता तं अध्वर्यु दीक्षयित्वा तत्तद्गणसम्बन्धिनो द्वितीया. नृत्विजो दीक्षयेत् । तत्राऽयं क्रमः-ब्रह्मगणसम्बन्धिनं ब्राह्मणाच्छंसिनं उद्गातृगणा- न्तर्गतं प्रस्तोतारं होतुरनन्तरं मैत्रावरुणं च दीक्षयेदिति । अग्रेऽप्येवमेव द्रष्टव्यम् । अन्यदत्र सुगमम् । १९ जै० न्या०