पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१८ सविस्तरायां जैमिनीयन्यायमालायां [अ. ३. पा. ७.अधि.१८. - ह्मणो दीक्षयति' इति । अस्याऽयमर्थ:-अध्वर्युर्यजुर्वेदोक्तं करोति, तस्य पुरुषास्त्रयः- प्रतिप्रस्थाता नेष्टोन्नेता चेति । एते चत्वारो दीक्षयितारः। ब्रह्मा वेदत्रयोक्तस्य प्रत्य- वेक्षणं करोति, तस्य पुरुषास्त्रयः-ब्राह्मणाच्छंसी, अग्नीत् , पोता चेति । उद्गातो- गानं करोति, तस्य पुरुषास्त्रयः-प्रस्तोता, प्रतिहर्ता, सुब्रह्मण्यश्चेति । होता शंसनं करोति, तस्य पुरुषास्त्रयः-मैत्रावरुणः, अच्छावाकः, ग्रावस्तुदिति । चतुर्षु वर्गेषु ये प्रथमास्ते दक्षिणां संपूर्णं प्राप्नुवन्ति । ये द्वितीयास्ते तदर्धं प्राप्नुवन्ति इत्यर्धिनः । ये तृतीयास्ते तृतीयांशं प्राप्नुवन्ति इति तृतीयिनः । ये चतुर्थास्ते चतुर्थमंशं प्राप्नुव- न्ति इति पादिनः । तानेतानुक्तक्रमेण स स पुरुषः संस्करोति इति । अत्र दीक्षावाक्ये निर्दिष्टा अध्वर्युप्रभृतय ऋत्विजः षोडश, न तु चमसाध्वर्यव इति नियमो द्रष्टव्यः ॥ इति सप्तदशं ब्रह्मादीनामृत्विक्त्वनियमाधिकरणम् ॥ १७ ॥ अथाऽष्टादशं यजमानसप्तदशत्वाधिकरणम् ॥ १८ ॥ अष्टादशाधिकरणमारचयति- सदस्ये यजमाने वा साप्तदश्यं वृतत्वतः । सदस्ये, कुरुते किंचिन्नाऽसौ स्वामिनि तत्त्वतः ।। २७॥

  • अध्वर्युब्रह्मादिषु षोडशसु व्यवस्थितेषु सप्तदशसंख्यापूरकः कश्चिदृत्विगपेक्षितः ।

सोऽत्र सदस्यो भविष्यति । सदस्यवस्थितः सदस्यः। न च तस्य वरणाभावः, केषांचि- च्छाखायां तद्वरणस्याऽऽम्नातत्वात् । ततः साप्तदश्यं सदस्ये पर्यवसितम् इति चेत्- मैवम् ; असौ सदस्यः किंचिदपि न करोति ‘सदस्य इ. कुर्यात्' इति विध्यभा- वात् । न च विना क्रियामृतुयजननिमित्त ऋत्विक्शब्दस्तस्मिन्नवकल्पते । यजमानस्तु त्यागं करोतीति तस्मिन्नुपपद्यते । तस्मात्साप्तदश्यं यजमाने युक्तम् ॥ इत्यष्टादशं यजमानसप्तदशत्वाधिकरणम् ॥ १८ ॥ ४ १ उद्गाता १ होता 9 २ ३

  • १ अध्वर्युः १ब्रह्मा

२ प्रतिप्रस्थाता २ ब्राह्मणाच्छंसी २ प्रस्तोता ३ नेष्टा ३ प्रतिहर्ता ४ उन्नेता ४ सुब्रह्मण्यः इति चत्वारो गणाः षोडशर्विजो वेदितव्याः । ३ आग्नीध्रः २ मैत्रावरुणः ३अच्छावाकः ४ ग्रावस्तुत ५ पोता