पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१६ सविस्तरायां जैमिनीयन्यायमालायां [ अ.३.पा.१.अधि.१६ अथ चतुर्दशमुपगातॄणामपृथक्त्वाधिकरणम् ॥१४॥ चतुर्दशाधिकरणमारचयति- अन्ये स्युरुपगातार उदितेभ्यो न वा यथा । लोकेऽत्रापि तथा मैवं नाऽध्वर्युरिति लिङ्गतः ॥ २२ ॥ यथा लोके मुख्येभ्यो गायकनायकादिभ्योऽन्ये पार्श्वस्था उपगातारः, तथाऽत्रापि इति चेत्- मैवम् ; यद्युक्तेभ्यः पुरुषेभ्य उपगतारोऽन्ये भवेयुः, तदानीमध्वर्योः प्रसक्त्यभा- वात् "नाऽध्वर्युरुपगायेत्” इति प्रतिषेधोऽनर्थकः स्यात् । तस्मादुक्तेष्वेव यौगिकः संज्ञाभेदः ॥ इति चतुर्दशमुपगातॄणामपृथक्त्वाधिकरणम् ॥ १४ ॥ 3 अथ पञ्चदशं सोमविक्रेतुः पृथक्त्वाधिकरणम् ॥ १५ ॥ पञ्चदशाधिकरणमारचयति- सोमविक्रय्येक एषु न वा वरणवर्जनात् । एकः क्रत्वर्थता नाऽस्ति विक्रयस्येति भिद्यते ॥ २३ ॥ क्रय एव ज्योतिष्टोमाङ्गत्वेन श्रुतः, न विक्रयः। न चाऽविहितमृत्विजः कुर्वन्ति । तस्मादन्यो विक्रेता ॥ इति पञ्चदशं सोमविक्रेतुः पृथक्त्वाधिकरणम् ॥ १५ ॥ अथ षोडशं सर्वेषामृत्विक्छब्दवाच्यताधिकरणम् ॥ १६ ॥ षोडशाधिकरणमारचयति- किमृत्विङ्नाम सर्वेषु समानमुत केषुचित् । क्रतौ यजनमेतेषां तुल्यमित्यस्ति नाम तत् ॥ २४ ॥ सौम्याध्वरस्य सप्त स्युर्दश चेत्यादिसंख्यया । न सर्वेषां समं नामकेषांचिद्योगरूढितः ॥ २५ ॥