शमितुरपृथक्त्वाधि० । 2 तृतीयोऽध्यायः। २१५ "चमसाध्व'न्वृणीते” इति यद्बहुत्वं श्रुतम् , तन्न विवक्षितम् , ग्रहैकत्ववदुद्देश्य- गतत्वात् इति चेत्- मैवम् ; ग्रहवैषम्यात् । ‘ग्रहं संमार्ष्टि' इत्येतद्ग्रहाणां नोत्पत्तिवाक्यम् । चमसा- ध्वर्यूणां त्वेतदेवोत्पत्तिवाक्यम् । ततस्तेषामुपादेयत्वात्तद्गतं बहुत्वं विवक्षितम् ॥ इत्येकादशं चमसाध्वर्यूणां बहुत्वाधिकरणम् ॥ ११ ॥ . अथ द्वादशं चमसाध्वर्यूणामियत्तर्पूणामियत्ताधिकरणम् ॥ १२ ॥ द्वादशाधिकरणमारचयति- नेयत्ताऽस्त्यस्ति वा तेषां न नियामकवर्जनात् । चमसाना(१)दशत्वेन चमसाध्वर्यवो दश ॥ २० ॥ स्पष्टोऽर्थः॥ इति द्वादशं चमसाध्वर्गृणामियत्ताधिकरणम् ॥ १२ । अथ त्रयोदशं शमितुरपृथक्त्वाधिकरणम् ॥ १३ ॥ त्रयोदशाधिकरणमारचयति- तेभ्योऽन्यः शमिताऽनन्यो वाऽन्यः संज्ञापृथक्त्वतः। वरणाभावतो नाऽन्यः संज्ञाभेदस्तु यौगिकः ॥ २१ ॥ (२)“शमितार उपेतन यज्ञम्' इत्यस्मिन्मन्त्रे श्रुतायाः शमितृसंज्ञायाः पृथक्त्वा. दुक्तेभ्योऽन्यः शमिता इति चेत्- मैवम् ; पृथग्वरणाभावात् । संज्ञाभेदस्तु पशुसंज्ञपनयोगादुपपद्यते । यद्यप्ययं मन्त्रोऽध्वर्युकाण्डे पठितः, तथाऽप्यध्वर्योः परावृत्तिश्रवणादध्वर्युपुरुषाः प्रतिप्रस्था- त्रादयः शमितारः। अत एव श्रूयते-(३)“पराडावर्ततेऽध्वर्युः पशोः संज्ञप्यमा. नात्' इति ॥ इति त्रयोदशं शमितुरपृथक्त्वाधिकरणम् ॥ १३ ॥ १. यदा सदस्यस्याऽपि वरणं तदा एकादश चमसा बोध्याः । तदानी चमसा- ध्वर्यवोऽप्येकादश वरीतव्याः। २. तै. सं. ३. १. ४. ३. हे शमितारः पशुसंज्ञपयितारः । इमं यज्ञं उपेतन प्रा- प्नुत इत्यर्थः । ३. तै. सं. ६. ३. ८. ३.
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२१६
दिखावट