पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१४ सविस्तरायां जैमिनीयन्यायमालायां [अ.३.पा.७.अधि.११ , , , ये यजमानेन क्रीताः कर्तार ऋत्विजः, तेषां संख्याविशेषो यद्यपि न श्रुतः, तथा- ऽपि कार्यानुसारेण सोऽवगन्तव्यः। ते च कार्यविशेषाः कर्तृसंयुक्ता एवं श्रूयन्ते-ा मन्थिनं जुहोति, नेष्टा पत्नीमुदायति, उन्नेता चम- सानुन्नयति, प्रस्तोता प्रस्तौति, उद्गा "पुरोऽध्वर्युर्विभजति, प्रतिप्रस्थाततोद्गायति, प्रतिहर्ता प्रतिहरति, सुब्रह्मण्यः सुव्र- ह्मण्यामाह्वयति, होता प्रातरतुवाकमनुब्रूते, मैत्रावरुणः प्रेष्यति, अच्छावाको यजति, ग्रावस्तुद्रावस्तोत्रीयामन्वाह” इति । एवं ब्रह्मब्राह्मणाच्छंस्याग्नीध्रपोतॄणां चतुर्णां कर्मा- ण्युदाहार्याणि । तस्मात् यावन्ति कार्याणि तावन्त ऋत्विजो वरीतव्याः । इति नवममृत्विक्संख्यानियमाधिकरणम् ॥ ९ ॥ अथ दशमं चमसाध्वर्य्वधिकरणम् ॥ १० ॥ दशमाधिकरणमारचयति- चमसाध्वर्यवो नाऽन्य ऋत्विग्भ्योऽन्येऽथवाऽग्रिमः । यौगिक्या संज्ञया, मैवं षष्ठया तेभ्यो विभेदनात् ॥१८॥ ज्योतिष्टोमे श्रूयते-"चमसाध्ववृणीते” इति । ये पूर्वत्र कार्यानुसारेणाऽध्वर्यु- प्रमुखा ऋत्विज उक्ताः, तेभ्यो न व्यतिरिक्ताश्चमसाध्वर्यवः । कुतः? यौगिकसंज्ञया तद- भेदप्रतीतेः यथा देवदत्त एव पचिक्रियायोगात्पाचको भवति, तथाऽध्वर्युप्रमुखा एव चमसयोगाचमसाध्वर्यव इति चेत्- मैवम् ; मध्यतःकारिणां चमसाध्वर्यवः, होत्रकाणां चमसाध्वर्यव इति षष्ठ्या भेदा- वभासात् । (१)मध्यतःकारिणोऽध्वर्युहोत्रादयः । (२) होत्रकाः प्रतिप्रस्थातृमैत्रावरुणा- दयः । तस्मादृत्विग्भ्योऽन्ये ॥ इति दशमं चमसाध्वर्य्वधिकरणम् ॥ १० ॥ - अथेकादशं चमसाध्वर्यूणां बहुत्वाधिकरणम् ॥ ११ ॥ एकादशाधिकरणमारचयति- तान्वृणीतेति बहुता नाऽस्ति वाऽस्ति ग्रहैक्यवत् । नेति चेन्नाऽत्र वैषम्यादुत्पत्तौ बहुताश्रुतेः ।। १६ ।। १. होतृब्रह्मोद्गातृयजमाना मध्यतः कारिणः । २. मैत्रावरुण, ब्राह्मणाच्छंसि, पोत, नेष्ट्र, च्छावाका, नीध्राः होत्रकाः।