पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चोदनात्रामाण्याधिकरणम् ] प्रथमोऽध्यायः। १९ अथ चतुर्थ धर्मस्य प्रत्यक्षाद्यगम्यत्वाधिकरणम् ॥ ४॥ चतुर्थाधिकरणमारचयति- प्रत्यक्षादिभिरप्येष गम्यते विधिनैव वा । अक्षादीनां प्रमाणत्वान्मेयधर्मावभासिता ॥ ४६॥ वर्तमानैकविषयमक्षं, धर्मस्तु भाव्यसौ । अक्षमूलोऽनुमानादिस्तेन विध्येकमेयता ॥ ४७ ॥ अक्षं प्रत्यक्षम् । प्रत्यक्षादीनां प्रमाणत्वात्प्रमेयावभासकत्वं तावदविवादम् । धर्मश्च प्रमेयः, असन्दिग्धावपर्यस्तत्वे सति बुध्यमानत्वात् , (१)घटादिवत् । तस्मात्प्रत्यक्षा- दिभिरप्येष धर्मो गम्यत इति प्राप्ते- ब्रूमः-धर्मस्य प्रमेयत्वेऽपि प्रत्यक्षयोग्यता नाऽस्ति, प्रत्यक्षस्य वर्तमानमात्रविष- यत्वात् । यस्तु प्रत्यक्षस्याऽत्यन्तमविषयः, तत्राऽनुमानादीनां कैव कथा ? (२)क्वचि- त्प्रत्यक्षेण गृहीते व्याप्यादौ पश्चादनुमानादीनां प्रवृत्तिः । तस्माद्वेधिनैव धर्मो गम्यते ॥ इति चतुर्थ धर्मस्य प्रत्यक्षाद्यगम्यत्वाधिकरणम् ॥ ४ ॥ , - अथ पञ्चमं चोदनाप्रामाण्याधिकरणम् ॥ ५॥ पञ्चमाधिकरणमारचयति- अबोधको बोधको वा न तावबोधको विधिः । शक्तेरलौकिके धर्मे ग्रहणं दुर्घटं यतः॥ ४८॥ समभिव्याहृते धर्मे शक्तिग्रहणसम्भवात् । बोधकस्य विधेर्मात्वमनपेक्षतया स्थितम् ॥ ४९ ॥ यथा धर्मे प्रत्यक्षादीनां प्रामाण्यं नाऽस्ति, तथा विधेरपि नाऽस्ति प्रामाण्यम् । , १. पादिवदिति क. पु. २. क्वचिन्महानसादौ प्रत्यक्षेण गृहीतयोरेव वह्निधूमयोर्व्याप्तिग्रहो भवति-यत्र यत्र धूमस्तत्र तत्र वह्निरिति। गृहीतायाञ्च व्याप्ती, पर्वतादौ धूमादिलिङ्गेन व्याप्तिस्मरणपरा- मादिद्वारा वन्ह्यादेरनुमानमिति अनुमानादीनां प्रत्यक्षपूर्वकत्वान्न धर्मे प्रामाण्यसम्भव इति भावः ।