पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ तृतीयं धर्मप्रमाणपरीक्षाधिकरणम् ॥ ३॥ (१)तृतीयाधिकरणं भट्टमतेनाऽऽरचयति- धर्मस्य ज्ञापकं मानं यदुक्तं चोदनात्मकम् । एतरिक न परीक्ष्यं स्याकिं वा सम्यक्परीक्ष्यताम् ॥ ४२ ॥ मानोपदेशान्मेयस्य सिद्धत्वार्तिक परीक्षया । मैवं; विचारशास्त्रेऽस्मिन् परीक्षोपेक्ष्यते कुतः ॥ ४३ ॥ स्पष्टोऽर्थः ॥ अस्मिन्नेवाऽधिकरणे गुरुमतमाह- आदौ परीक्ष्यो वेदार्थश्चोदनामानताऽथवा । वेदार्थस्य प्रधानत्वात्प्रथमं तत्परीक्ष्यताम् ॥ ४४ ॥ चोदनामानतैवाऽत्र प्रथम साध्यतां गता। अनपेक्षतया तस्य यतो मुख्यत्वमाश्रितम् ॥ ४५ ॥ द्वितीयाद्यध्यायैः कर्मभेदशेषशोषित्वादिरूपो वेदार्थस्सूत्रकारेण परीक्षिष्यते । चोदनाप्रामाण्यं तु प्रथमाध्याचे परीक्ष्यते । तदेतदयुक्तम् । कुतः ? वेदार्थस्य प्रधान- त्वेनाऽऽदौ परीक्षणीयत्वात् । प्रधानभूतो हि वेदार्थः, पुरुषार्थत्वेनाऽनुष्ठेयत्वात् । प्रमाणं तु तद्वोधनाय प्रवृत्तं सतच्छेषतया न प्रधानमिति प्राप्ते- ब्रूमः-अस्त्वनुष्ठानोपाधी वेदार्थप्रमाणयोः प्रधानोपसर्जनभावः । प्रमाणप्रमेय- भावोपाधो तु प्रमाणस्यैव मुख्यत्वं निरपेक्षत्वात् । न हि स्वतःप्रामाण्यवादिनां मते सापे- क्षता प्रमाणस्याऽस्ति । प्रमेयं तु सापेक्षम् , ‘मानाधीना मेयसिद्धिरित्युक्तत्वात् । तदे- तन्मुख्यत्वमाश्रित्य सूत्रकारः प्रमाणपरीक्षामादौ चकारेति युज्यते । अथाऽन्यत्प्राधा- न्यमाश्रित्य धर्मवेिचार एवाऽऽदौ कस्मान्न कृतः ? अपरीक्षितेन प्रमाणेन धर्मस्याऽसिद्धौ तद्विचारस्याऽऽश्रयासिद्धेः । तदेवमधिकरणत्रये व्युत्पादनाय भाट्टप्राभाकरमतभेद उप- न्यस्तः । (२)अथ प्रायेण भाट्टमतमेवोपन्यस्यते इति तृतीयं धर्मप्रमाणपरीक्षाधिकरणम् ॥ ३ ॥ १. इदं वाक्यं क. पुस्तके नाऽस्ति । २. इदं वाक्यं क. पुस्तके नाऽस्ति ।