पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धर्मलक्षणाधिकरणम् ] प्रथमोऽध्यायः। १७ “अथाऽतो धर्मजिज्ञासे”त्यत्राऽथशब्देन कृत्स्नवेदाध्ययनानन्तर्यमुच्यते। अतश्शब्देन कृत्स्नस्य वेदस्य विवक्षितार्थत्वं हेतूक्रियते । उक्तशब्दद्वयानुसारेण धर्मशब्दोऽपि कृत्स्नं वेदार्थमाचष्टे । ततः सूत्रे “वेदार्थो जिज्ञास्य" इति प्रतिज्ञा कृता । तत्र संशयः-किं मन्त्रार्थवादप्रतीतः सिद्धार्थोऽपि वेदार्थो भवति ? किं वा विधि- वाक्यप्रतीतः कार्यार्थ एव वेदार्थः ? इति । तत्र (१)"लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधकः" इति न्यायेन व्युत्पत्त्यनुसारी वेदार्थो वर्णनीयः। व्युत्पत्तिश्च सिद्धार्थेडप्यस्ति। 'पुत्रो जातः' इ.ते वार्ताहरव्याहारजन्यं श्रोतुहर्षमनुमाय हर्षहेतौ पुत्रजन्मनि सङ्गतिं प्रतिपद्यते । अतो मन्त्रार्थवादप्रतीतोऽप्यर्थो वेदार्थः इति प्राप्ते- (२)ब्रूमः-पुत्रजन्मवद्धर्षहेतूनां धनलाभादीनां बहुत्वादस्य वाक्यस्य पुत्रजन्मै- वाऽर्थ इति निर्णयो दुर्लभः । (३) गामानयेति वाक्ये तु गवानयनरूपां मध्यमवृद्ध- प्रवृत्तिमवलोक्य सङ्गतिग्रहणं सुलभम् । तस्मात्कार्यरूप एव वेदार्थ(४) इति ॥ इति द्वितीयं धर्मलक्षणाधिकरणम् ॥ २ ॥ . > १. अयं च न्यायः (पू. मी. १.३.९.) लोकवेदाधिकरणसिद्धः, तत्र य एव लौकिकाइशब्दाः त एव वैदिकाः, य एव लोके शब्दानामर्थाः त एव वेदेऽपीति सिद्धा- न्तितत्वात् । २. ब्रूम इति क. पुस्तके नाऽस्ति । ३. अयमर्थः-गामानयेत्युत्तमवृद्धवचनश्रवणसमनन्तरं मध्यमवृद्धस्य गवानयनं दृष्ट्वा व्युत्पित्सुर्वाल इत्थमाकलयति-ज्ञानपूविकेयमस्य प्रवृत्तिः, स्वतन्त्रप्रवृत्तित्वात् , मत्प्रवृत्तिवदिति । तथैव स्वात्मदृष्टान्तेन प्रवर्तकप्रत्यये पदसमुदायस्य सामान्यतस्साम- र्थ्यमधिगम्य प्रयोगान्तरेषु गां वधान, अश्वमानयेत्यादिषु आनयनगोशब्दयोरुद्धारे तद- र्थयोरप्युद्धारात् , प्रक्षेपे च प्रक्षेपदर्शनात् अन्वयव्यतिरेकाभ्यां गवादिविशेषेषु पदविशेष- स्य सामर्थ्य गृह्णाति । तच्च सामर्थ्य सर्वत्र कार्यान्वयाव्यभिचारात्तदन्वितपदार्थेषु गृह्णा- ति, न पुनः पदार्थमात्रे, प्राथमिकव्युत्पत्त्यवगताव्यभिचारिकार्यान्वयपरित्यागे प्रमाणा- भावात् । ननु यत्र मध्यमवृद्धप्रवृत्तिलिङ्गमवलम्ब्य शब्दस्य सङ्गतिग्रहः, तत्रैवं यत्र तु मुखविकासादिलिङ्गाद्धर्षहेतुसिद्धार्थमनुमाय शब्दस्य सङ्गतिग्रहः, यथा-पुत्रस्ते जात इत्यादिषु तत्राऽवश्यं कार्यमन्तरेणैव सिद्धार्थे शब्दस्य शक्तिरेष्टव्येति चेन्न; सिद्धा- र्थबोधकवाक्येषु पुत्रस्ते जात इत्यादिषु हर्ष हेतुविशेषानुमापकस्य प्रत्यक्षलिङ्गस्याऽभा- वात् , मुखविकासादेश्च हर्षहेतुमात्रानुमापकत्वात् , पुत्रजन्मवदन्यस्य धनलाभादेरप्यने- कस्य सम्भवेन विनिगमनाभावाच्च पुत्रशब्दस्य सङ्गतिग्रहो न सुलभः । अतस्सर्वशब्दा- नां कार्यान्वितपदार्थेष्वेव शक्तिरिति सर्वोऽपि वेदार्थः कार्यरूप एवेति । ४. इ त सिद्धान्त इति क. पु. । > भवतु, ,