पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६ सविस्तरायां जैमिनीयन्यायमालायां

, ग्रहणाभावान्नानुमानम् । प्रत्यक्षाद्यनुमानमूलश्च शब्दस्य सङ्गतिग्रहः । ततो व्युत्पत्त्य- भावान्नाऽऽगमोऽपि तत्र प्रवर्तते । तस्माद्धर्मो लक्षणप्रमाणरहित (१)इति प्राप्ते- ब्रूमः- :-मा भूचक्षुरादिगम्यो लौकिक आकारः, तथाऽपि चोदनागम्यः वर्गफल- साधनत्वादिलक्षण आकारोऽस्त्येव । तेन 'अर्थत्वे सति चोदनागम्यो धर्मः' इति लक्षणं भवति । 'अर्थो धर्मः' इत्युक्ते. ब्रह्मणि चैत्यवन्दनादौ घटादौ चाऽतिव्याप्तिः, तद्व्यवच्छे- दाय 'चोदनागम्य' इत्युक्तम् । तावत्येवोक्ते विधिगम्येऽनर्थफलत्वेनाऽनर्थरूपे (२)श्येना- द्यभिचारकर्मण्यतिव्याप्तिः, तद्व्यवच्छेदाय 'अर्थ' इत्युक्तम् । यद्यपि श्येनस्य शत्रुवधः फलम् , न तु नरकः । तथाऽपि तस्य वधस्य नरकहेतुत्वावधद्वारा श्येनोऽनर्थः। न चैव- मग्नीषोमीयपशुहिंसाया अपि वधत्वेन नरकहेतुत्वं स्यादिति शङ्कनीयम् । तस्याः क्रत्व- ङ्गत्वेन क्रतुफलवर्गव्यतिरेकेण फलान्तराभावात् । यतश्चोदनागम्यत्वे सत्यर्थत्वं धर्मल- क्षणम् , अत एव गम्ये धर्मे गमकं विधिवाक्यं प्रमाणम् । यद्यपि प्रत्यक्षानुमानयोर- विषयो धर्मः, तथाऽपि प्रसिद्धपदसमभिव्याहारेण व्युत्पत्तिः सम्भवति । तस्माल्लक्षण- प्रमाणाभ्यामुपेतो धर्मः॥ अस्मिन्नेवाऽधिकरणे गुरुमतमाह- यद्वा जिज्ञास्यवेदार्थः किं मन्त्राद्यवबोधितः । सिद्धार्थोऽप्यथ विध्येकगम्यः कार्यार्थ एव वा ।। ३६ ॥ सिद्धेऽपि पुत्रजन्मादौ व्युत्पत्तेरुपपत्तितः । मन्त्रादिगम्यसिद्धस्य वेदार्थत्वेऽपि का क्षतिः ।। ४० ॥ हर्षहेतुबहुत्वेन व्युत्पत्तिः पुत्रजन्मनि । दुर्लभा, सुलभा कार्ये वेदार्थोऽतः स एव हि ॥ ४१ ॥ - १. इति पूर्वः पक्ष इति कपुस्तक पाठः । २. प्राभाकरास्तु श्येनादेस्साक्षादेवाऽनर्थहेतुत्वं कथयन्ति, न फलद्वारा । ते हि- "कोऽर्थः ? यो निःश्रेयसाय, ज्योतिष्टोमादिः । 'कोऽनर्थः ? यः प्रत्यवायाय- श्येनो, वज्रः, इषुरित्येवमादिः तत्राऽनर्थो धर्म उक्तो मा भूदित्यर्थग्रहणमिति भाष्ये श्येनादेविधेयत्वनिराकरणपूर्वकमनर्थत्वोक्तेः श्येनादिस्वरूपमेवाऽर्थपदेन व्याव- यंत इत्यभिप्रयन्ति । भाडास्तु-"कथं पुनरसावनर्थः ? हिंसा हि सा, हिंसा च प्रति- षिद्धे'त्युपरितनभाष्येण इयेनादिग्रहणस्य तत्साध्यहिंसादिलक्षणार्थत्वावगतेन श्येनादिस्व- रूपमर्थपदव्यावर्त्यम्, किन्तु 'न हिंस्यात्सर्वा भूतानी'त्यादिनिषेधवाक्यैरनर्थत्वेन लक्ष्य- माणानां हिंसादीनामपि चोदनागोचरत्वेन धर्मत्वं स्यात् । अतस्तद्व्यावृत्यर्थमर्थपदमि- त्यभिप्रयन्तीति विवेको बोध्यः ।