पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२० सविस्तरायां जैमिनीयन्यायमालायां शक्तिग्रहणपूर्वकं हि प्रामाण्यमाप्तवाक्यस्य लोके दृष्टम् । शक्तिश्च लोकप्रसिद्ध गयादौ गृह्यते । धर्मस्त्वलौकिकः । अतस्तत्र शक्तिग्रहणं दुर्घटम् । तस्माद्वधेरबोधकरत्याग धर्मे प्रामाण्यमिति प्राप्ते- ब्रूमः यथा 'प्रभिन्नकमलोदरे मधूनि मधुकरः पिबतीत्यत्र मधुकरपरस्ता- ऽर्थमजानन्नन्यपदार्थमवगत्य तत्समभिव्याहारात्कमलस्य मध्यगते मधुपानं कुर्वते दृश्यमाने भ्रमरे मधुकरशब्दस्य सङ्गतिं गृहीत्वा वाक्यार्थ प्रतिपद्यते, तथा 'कारीर्या वृष्टिकामो यजेत' इत्यत्र लोकप्रसिद्धार्थवृष्टयादिपदसमभिव्याहारादलौकिक भावनायां विधेः सङ्गतिं गृहीत्वा विधिवाक्यार्थं पुरुषो बुध्यते । तस्मादबोधकत्वलक्षणमप्रामाण्यं नाऽस्ति । न च संवादाभावादप्रामाण्यम्, समनन्तरभाविप्रतिनियतफले वृष्टयादौ संवा- दस्याऽपि संभवात् । अनियतदृष्टफले चित्रायागादौ, प्रतिनियतजन्मान्तरफले ज्योति- ष्टोमादौ च संवादः कथमिति चेत् ? एवं तर्हि स्वतःप्रामाण्याभ्युपगमानाऽस्ति क्वाऽपि संवादाद्यपेक्षा । तस्मादबोधकत्वसापेक्षत्वयोरप्रामाण्यकारणयोरभावाद्विधेः स्वत- स्सिद्धं प्रामाण्यं नाऽपह्नोतुं शक्यम् ॥ इति पञ्चमं चोदनाप्रामाण्याधिकरणम् ॥ ५॥ अथ षष्ठं शब्दनित्यत्वाधिकरणम् ॥ ६ ॥ षष्ठाधिकरणमारचयति- विध्यादिरूपो यः शब्दः सोऽनित्योऽथाऽविनश्वरः । अनित्यो वर्णरूपत्वाद्वर्णे जन्मोपलम्भनात् ॥ ५० ॥ अबाधितप्रत्यभिज्ञाबलाद्वर्णस्य नित्यता । उच्चारणप्रयत्नेन व्यज्यतेऽसौ न जन्यते ॥५१॥ शब्दनित्यत्ववादिनो वैयाकरणास्तावदेवं मन्यन्ते-वर्णसमूहश्रवणानन्तरम्-इदमेकं पदमिति प्रत्ययो मानसप्रत्यक्षेणोत्पद्यते । तस्य च प्रत्ययस्य वर्णव्यतिरिक्तः कश्चि- त्स्फोटनामकः पदार्थो विषयः । स च नित्यः । स एव शब्दः, न तु वर्णा इति । तदे- तन्नैयायिकादयो न सहन्ते । वर्णेष्वेवैकार्थावच्छेदोपाधिना पदैक्यबुद्धरुपपत्तौ वर्णाति- रिक्तस्फोटकल्पना निरर्थिका । तस्माद्वर्णानामेव शब्दत्वम् । वर्णाश्च प्रतिपुरुषं प्रत्युच्चा- रणं च जन्मविनाशवन्त उपलभ्वन्ते । तस्मादनित्यः शब्दः । तस्य च कारणदोषस- म्भवाद्विधेरप्रामाण्यमिति पूर्वः पक्षः ।