पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८६ सविस्तरायां जैमिनीयन्यायमालायां [अ. ३. पा.५. अधि.५ " इन्द्राय वैराजाय, इन्द्राय शाकराय, इन्द्राय रैवताय” इति । तत्र स्वरूपेणैकोऽपीन्द्रः पृष्ठस्तोत्रेषु षट्सु विहितानां षण्णां रथन्तरादिसाम्नां संबन्धेन विशेष्यमाणः षोढा भिद्यते। तासां सर्वासामिन्द्रदेवतानामेक एव पुरोडाशो विधीयते-(१)"द्वादशकपालः पुरोडाशो भवति वैश्वदेवत्वाय” इति । तस्मिंश्च पुरोडाशे प्रोक्तदेवताभ्यः पृथक्पृथक्प्रदानाय बहुभ्यः प्रदेशेभ्योऽवदानं श्रूयते-(२)“समन्तं पर्यवद्यति' इति । तत्र देवताभेदेन प्रदानभेदेन च कर्मणां भेदे सति पृथगतिदेशात्स्विष्टकृदिडादिशेषकार्याय षट्कृत्वः पृथकर्तव्यम् इति चेत्- मैवम् ; शेषस्यैकत्वेन तत्प्रतिपत्तेः पृथक्त्वासंभवात्। तस्मात् सकृदेव कार्यम् ॥ इति चतुर्थं सर्वपृष्टेष्टयधिकरणम् ॥ ४ ॥ अथ पञ्चममैन्द्रवायवे द्विर्भक्षणाधिकरणम् ॥ ५ ॥ पञ्चमाधिकरणमारचयति- ऐन्द्रवायवशेषस्य सकृद्भक्ष उताऽसकृत् । पूर्वन्यायात्सकृत्प्राप्तौ द्विर्भक्षो वचनाद्भवेत् ॥ ८ ॥ ज्योतिष्टमे योऽयमैन्द्रवायवग्रहः तत्र संस्कार्यस्य सोमस्यैकत्वात्सकृदेव शेषका- र्यम् इति चेत्- मैवम् ; (३)"द्विरैन्द्रवायवस्य भक्षयति, द्विर्येतस्य वषट्करोति" इति वचना- द्द्विर्भक्षणम् ॥ इति पञ्चममैन्द्रवायवे द्विर्भक्षणाधिकरणम् ॥ ५ ॥ वैराज, शाक्वर, रैवताख्यानि षट् सामानि, सोमयागे पृष्ठस्तोत्रसाधनानि । तत्सम्ब. न्धादिन्द्रो राथन्तरो बार्हतश्च इत्यादिना व्यपदिश्यते । तद्देवताकत्वादिष्टिरियं सर्व- पृष्टेष्टिरित्यभिधीयते। १. २. तै. सं. २. ३. ५. २. प्रधानहोमार्थं परितः अवदानं कुर्यादित्यर्थः । ३ ऐन्द्रवायवस्येति द्वितीयार्य षष्टी। ग्रहान्तरेषु सकृदेव भक्षणम । ऐन्द्रवायव- स्य तु द्विः । तस्य वायवे, इन्द्रवायुभ्यां चेति वारद्वयं वषट्कारपाठात् इत्यर्थः ।