पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८७ ससुब्रह्मण्योगातृभक्षाधिकरणम् ] तृतीयोऽध्यायः । अथ षष्ठं सोमे शेषभक्षाधिकरणम् ॥ ६ ॥ षष्टाधिकरणमारचयति- सोमेष्वभक्षो भक्षो वा न भक्षो ग्रहहोमतः । अल्पोक्तेरस्ति शेषोऽस्य भक्षोऽपूर्ववचोबलात् ॥ ६ ॥ सोमयागेषु शेषभक्षो नाऽस्ति, “यगृहाजुहाति" इति कृत्स्नग्रहेणाऽऽहुतिश्रवणा- त्कुम्भीष्विव शेषाभावात् इति चेत्- मैवम्, “अल्पं जुहोति” इति विशेषवचनाच्छेषः सिध्यति । तद्भक्षणं त्वपू- र्वार्थप्रतिपादकवचनेभ्योऽवगम्यते । “आश्विनं भक्षयन्ति” "द्विरेन्द्रवायवस्य भक्षय- न्ति""सदसि भक्षयन्ति” इत्यादीनि वचनान्यपूर्वार्थं प्रतिपादयन्ति । ततो भक्षविधा- नादस्ति सोमेषु भक्षः। इति षष्टं सोमे शेषभक्षणाधिकरणम् ॥ ६ ॥ अथ सप्तमं चमसिनां शेषभक्षाधिकरणम् ॥ ७ ॥ सप्तमाधिकरणमारचयति- किं प्रेतु होतुश्चमस इत्यभक्षोऽथ भक्षणम् । अभक्षोऽनुक्तितो होतुश्चमसेत्याख्ययाऽस्तु तत् ॥ १० ॥ ज्योतिष्टोमे श्रूयते-(१)"प्रैतु होतुश्चमसः, प्र ब्रह्मणः, प्रोद्गातॄणाम् , प्रयजमा- नस्य, प्र यन्तु सदस्यानाम्' इति । तत्र वचनाभावादभक्षः इति चेत्- मैवम् ; समाख्यागते चमसशब्दे भक्षणस्य प्रतीयमानत्वात् । 'चम्यते भक्ष्यते सोमोऽस्मिन् पात्रविशेषे' इति हि तद्व्युत्वत्तिः । तस्मात् अस्ति तद्भक्षणम् ॥ इति सप्तमं चमसिनां शेषभक्षाधिकरणम् ॥ ७ ॥ 2 - अथाऽष्टमं ससुब्रह्मण्योद्गातृभक्षाधिकरणम् ॥ ८ ॥ अष्टमाधिकरणमारचयति- प्रोद्गातॄणामिति ह्येक उद्गाता भक्षयेदुत । सर्वेऽपि किं वा सुब्रह्मण्येनोक्ताः सामगायिनः ॥११॥ १.श.बा.४.१.६.२९. होतुश्चमसः प्रकर्षेणाऽऽगच्छतु भक्षणार्थमित्यर्थः । एवमग्रेऽपि ।