पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सर्वपृष्ठेष्टयधिकरणम् ] तृतीयोऽध्यायः । १८५ अथ तृतीयं सौत्रामण्यधिकरणम् ॥ ३ ॥ तृतीयाधिकरणमारचयति- सौत्रामण्यां ग्रहे स्विष्टकृदाद्यस्ति न वाऽस्ति तत् । शेषाणां न सुराक्षीरयोरन्यत्रोपयोगतः ॥ ५॥ सौत्रामणीनामके यागे श्रूयते-“पयोग्रहाः सुराग्रहाश्च गृह्यन्ते” इति तत्र प्रकृतिगतसोमग्रहेष्विव शेषकार्यं स्विष्टकृदादिकमस्ति । न चाऽत्र पूर्ववच्छेषाभावः, "उच्छिनष्टि, न सर्व जुहोति" इत्यवशेषयितव्यत्वश्रवणात् इति चेत्-- मैवम् ; अवशिष्टस्याऽन्यत्रोपयोगश्रवणात्। (१)“ब्राह्मणं परिक्रीणीयादुच्छेषणस्य पातारम्” इति श्रूयते । “यदि ब्राह्मणं न विन्देत् , वल्मीकवपायामवनयेत् इति च । (२)"शतातृण्णायामवनयेत्” इति च। शतच्छिद्रा कुम्भी शतातृण्णा । तस्मात् नाऽस्ति स्विष्टकृदादिकम् ॥ इति तृतीयं सौत्रामण्यधिकरणम् ॥ ३ ॥ " 2 अथ चतुर्थ सर्वपृष्ठेष्टयधिकरणम् ॥ ४॥ चतुर्थाधिकरणमारचयति- रथन्तरादिभिर्भिन्ना इन्द्रास्तेषां न भिद्यते । पुरोडाशस्तत्र शेषकार्यं किं भिद्यते न वा ॥६॥ भिद्यते कर्मणां भेदाच्चोदकैः पृथगुक्तितः । शेषस्य सर्वतुल्यत्वात्तत्कार्यं सकृदिष्यताम् ॥ ७॥ (३)“य इन्द्रियकामो वीर्यकामः स्यात् , तमेतया सर्वपृष्ठया याजयेत्” इति विहि. तायामिष्टौ षडिन्द्रा एवं श्रूयन्ते-“इन्द्राय राथन्तराय, इन्द्राय बार्हताय, इन्द्राय वैरूपाय स्तस्थिते जुहूपभृतौ दत्वा द्वे पयःकुंभ्यौ द्वे दधिकुंभ्यो आहत्य चतस्रः कुम्भीगृहीत्वा होमार्थं आहवनीयदेशं गच्छन् इत्यर्थः । तै. व्रा. १. ८. ६. २. हुतहविश्शेषभक्षणस्याऽवश्यकत्वात् तत्स्वयमकृत्वा तत्करणार्थं ब्राह्मणं कञ्चन द्रव्यदानेनाऽऽनमयेत् । स एव सुराया हुतायाश्शेषं पिबेत् । यदि तादृशो ब्राह्मणो नोपलभ्येत तर्हि वल्मीकच्छिद्रे समवनयेत् । २. ते. ब्रा. १. ८. ६. ४. शतातृण्णा शतच्छिद्रा कुम्भी। तां दक्षिणाग्नेरुपरि धारयन् तत्र हुतशेषां सुरां निक्षिपेत् यथा सा दक्षिणाग्नौ निपतेत् । ३. ते. सं. २.३. ७. १. सर्वपृष्ठा इतीष्टेर्नामधेयम् । रथन्तर, बृहत्, १. वरूप,