पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८४ सविस्तरायां जैमिनीयन्यायमालायां [अ.३.पा.५.अधि.२ उक्ताज्यद्रव्यशेषस्तु भाव्युपस्तरणादिकृत् । अतो न प्रतिपर्त्त्यहः शेषकार्य ततः कथम् ॥ २ ॥ ध्रौवादाज्यादुपांशुयाजार्थमवदाने कृते तच्छेषेण ध्रौवेण द्रव्येण स्विष्टकृदादिकं शेषकार्य कर्तव्यम् । कुतः ? “तद्यत्सर्वेभ्यो हविर्भ्यः समवद्यति" इति वाक्येन प्रापितत्वादिति चेत्- मैवम् ; कृतार्थद्रव्यशेषो ह्युपयोगापेक्षः प्रतिपत्तिमर्हति । ध्रौवं त्वाज्यं न कृता- र्थम् । तेन कर्तव्यानामुपस्तरणादीनां सद्भावात् । तस्मात् न तेन शेषकार्यं भवति ॥ इति प्रथम उपांशुयाजहविषा शेषकार्याननुष्ठानाधिकरणम् ॥ १ ॥ अथ द्वितीयं साकंप्रस्थायीये शेषकार्याननुष्ठानाधिकरणम् ॥ २ ॥ द्वितीयाधिकरणमारचयति- आक्रामन्सह कुम्भीभिरस्ति शेषक्रिया न वा । जुह्वाऽवदानात्प्रकृताविव शेषक्रियोचिता ॥ ३ ॥ कुम्भीषु शेषासंसिद्धेः साकम्प्रस्थाय्यकर्मणि । न स्विष्टकृदिडं कार्यमग्नीधः स्रुक्प्रदानतः ॥ ४ ॥ (१)“साकम्प्रस्थायीयेन यजेत पशुकामः” इति विहिते कर्मणि श्रूयते-“सह कु- म्भीभिरभिक्रामन्नाह" इति । तत्र चतसृभिर्दधिपयःकुम्भीभिः सहाऽऽहवनीयोद्देशेऽभि- क्रमणमात्रं श्रुतम् । न तु तत्र कुम्भीभिर्होमः श्रुतः । तथासत्यस्य कर्मणः सांनाय्य- विकृतित्वाज्जुह्वा कुम्भीभ्योऽवदाय होतव्यम् । हुतशेषेण च स्विष्टकृदादिकं सांनाय्य- शेषेणेव कर्तव्यमिति प्राप्ते- ब्रूमः-नाऽत्र कुम्भीषु हुतशेषः सिध्यति, सांनाय्यवज्जुह्वा तदवदानाभावात् । (२)"अग्नीधे स्रुचौ प्रदाय सह कुम्भीभिरभिकामन्” इत्युक्त्या जुहूपभृतोः प्रत्तत्वाद. भिक्रमणस्य होमार्थत्वाच्च कुम्भीभिरेव दधिपयसोर्होमे सति कुम्भीमात्रमवशिष्यते । न तु हविश्शेषः । तत्र कुतः शेषकार्यम् ? ॥ इति द्वितीयं साकम्प्रस्थायीये शेष कार्याननुष्टानाधिकरणम् ॥ २ ॥ १. तै. सं. २. ५ ४. ३. अत्रत्यो विषयसन्दर्भः २. ३. ४ (पृ. १०८) अधिक रणटिप्पणीतोऽवगन्तन्यः । २. आप. श्री. ३. १६. १७. ( अध्वर्युः ) अग्नीधे अग्नीध्रसंज्ञकायविजे स्वह-