पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१८३ चतुर्धाकरणभक्षणाधिकरणम् ] तृतीयोऽध्यायः । अथैकविंशं चतुर्धाकरणभक्षणाधिकरणम् ॥ २१ ॥ एकविंशाधिकरणमारचयति इदं ब्रह्मण इत्युक्तिः क्रयार्था भक्षणाय वा। भक्षाश्रुतेः क्रयाथोऽतो यथेष्टं तैर्नियुज्यताम् ॥ ३७ ॥ देवतायै समस्तस्य क्लृप्तत्वात्स्वामिता न हि। शेषस्य प्रतिपत्त्यर्थ भक्षणं तत्र युज्यते ॥ ३८ ॥ इति श्रीमाधवाचार्यविरचिते जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य चतुर्थः पादः ॥ चतुर्धाकृतपुरोडाशस्य भागान् यजमान एवं निर्दिशेत्-इदं ब्रह्मणः, इदं होतुः, इदमध्वर्योः, इदमग्नीधः, इति । सोऽयं निर्देशो न भक्षणार्थः, भक्षणस्याऽश्रुतत्वात् । ततो भृतिदानेन तानृत्विजः परिक्रेतुमयं निर्देशः कृतः। क्रयश्च तदङ्गीकारानुसारेण स्वल्पेनाऽप्युपपद्यते । तस्मात्स्वकीया भागास्तैरिच्छयोपयोक्तुं शक्या इति प्राप्ते ब्रमः- "अग्नये जुष्टं निर्वपामि" इति कृत्स्नस्य हविषो देवतार्थं सङ्कल्पितत्वेन व यजमानस्य स्वामित्वाभावान युक्तः परिक्रयः । भक्षणं तु प्रतिपत्त्यर्थत्वाद्युक्तम् । अवशिष्टस्य यः कोऽप्युपयोगः प्रतिपत्तिः । पुरोडाशस्य भक्षणार्हत्वाद्भक्षणेन कर्मकराणामुत्साहजननाच्च भक्षणार्थोऽयं निर्देशो युज्यते ॥ इत्येकविंशं चतुर्धाकरणभक्षणाधिकरणम् ॥ २१ ॥ इति श्रीमाधवाचार्यविरचिते जैमिनीन्ययायमालाविस्तरे तृतीयाध्यायस्य चतुर्थः पादः ॥ ४॥ अथ तृतीयाध्यायस्य पञ्चमः पादः ॥ ५ ॥ तत्र प्रथम उपांशुयाजहविषा शेषकार्याननुष्ठानाधिकरणम् ॥ १ ॥ पञ्चमपादस्य प्रथमाधिकरणमारचयति उपांशुयाजद्रव्येण शेषकार्यं भवेन्न वा। भवेद्धविर्भ्यः सर्वेभ्य इत्युक्त्या प्रापितत्वतः ॥ १ ॥