पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८२ सविस्तरायां जैमिनीयन्यायमालायां [अ.३.पा.४.अधि.२० तिरश्चीनमवद्यति" इति । ततो हविषः सकाशादङ्गुष्ठपर्वद्वयमानं खण्डयित्वा त्यक्त- व्यम् । इतरच्छेषणीयम् । देवतासम्बन्धश्चांऽशद्वारेणाऽप्युपयुज्यते ॥ इत्यष्टादशं सर्वप्रदानाधिकरणम् ॥ १८ ॥ - अथैकोनविंशं सर्वेभ्यस्स्विष्टकृदनुष्ठानाधिकरणम् ॥ १६ ॥ एकोनविंशाधिकरणमारचयति- शेषात्स्विष्टकृदेकस्मात्सर्वेभ्यो वैकतः कृते । शास्त्रार्थसिद्धिः, सर्वेभ्यः कार्यः संस्कारसाम्यतः ॥ ३५ ॥ ॥ दर्शपूर्णमासयोः श्रूयते-“शेषात्स्विष्टकृते समवद्यति” इति । तत्र आग्नेया- दीनां त्रयाणां हविषां मध्ये यस्य कस्यचिदेकस्य हविषः शेषादवदातव्यम् । तावतंत्र शास्त्रार्थानुष्ठानसिद्धेरिति चेत्- मैवम् ; उपयुक्तं हविः संस्कर्तुमिदमवदीयते । संस्कारश्च सर्वेष्वपि हविष्य समानः । तस्मात् सर्वेभ्यो हविश्शेषेभ्यः स्विष्टकृदनुष्टेयः॥ इत्येकोनविंशं सर्वेभ्यस्स्विष्टकृदनुष्ठानाधिकरणम् ॥ १९ ॥ अथ विंशं प्राथमिकशेषात्स्विष्टकृदनुष्ठानाधिकरणम् ॥ २० ॥ विंशाधिकरणमारचयति- यदैकस्मात्तदा मुख्यनियतर्नो!त विद्यते । नाऽश्रुतेरस्ति मुख्यातिक्रमणे हेत्वभावतः ॥ ३६ ॥ 'एकस्मादेव हविश्शेषात्स्विष्टकृत्' इति यः पूर्वाधिकरणे पूर्वपक्षः, तस्मिन् पक्षे नियामकस्याऽश्रुतत्वात् यस्मात्कस्माच्चिद्धविश्शेषात् इति प्राप्ते- ब्रूमः-प्रथमातिक्रमे मानाभावात्प्रथमहविश्शेषेणैव संस्कारसिद्धावितरत्र प्राप्त्य- भावादस्ति नियतिः ॥ इति विशं प्राथमिकशेषात्विष्टकृदनुष्ठानाधिकरणम् ॥ २० ॥