पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सर्वप्रदानाधिकरणम् ] तृतीयोऽध्यायः । १८१ स्वाभावात् । वेदे तु (१)"हिन्व मे गात्रा हरिवः” इत्यनेन मन्त्रेण जरयितुं सोमः पीयते । तत्र वमनप्रायश्चित्तार्थोऽयं चरुः ॥ इति षोडशं पानव्यापदधिकरणम् ॥ १६ ॥ अथ सप्तदशं यजमानवमने इष्टिविधानाधिकरणम् ॥ १७ ॥ सप्तदशाधिकरणमारचयति- ऋत्विजां वमनेऽप्येष कर्तुरेवोत वर्जनात् । विशेषस्याऽग्रिमो मैवं कर्तुरेव निरुप्तितः ॥ ३३ ॥ 'ईदृशस्य सोमस्य वमने चरुः' इति विशेषस्याऽभावात्विजां यजमानस्य च वमने सर्वत्राऽसौ चरुरिति चेत्- मैवम् ; 'यो वमति स निर्वपति' इति निर्वप्तुर्वमनं चरुनिमित्तम् । निर्वप्ता च यजमानः। ऋत्विजो निर्वप्तृत्वेऽधिकार्यन्तरत्वप्रसङ्गात् । तस्मात् यजमानस्यैव वमने चरुविधिः ॥ इति सप्तदशं यजमानवमने इष्टिविधानाधिकरणम् ॥ १७ ॥ अथाऽष्टादशं सर्वप्रदानाधिकरणम् ॥ १८ ॥ अष्टादशाधिकरणमारचयति- यागे हविस्त्यजेत्कृत्स्नं कोऽप्यंशः शिष्यतेऽपि वा । देवार्थत्वाद्यजेत्सर्वं शिष्यते द्विरवत्ततः ॥ ३४ ॥ (२)“आग्नेयोऽष्टाकपालः' इत्यत्र कृत्स्नोऽपि पुरोडाशोऽग्नये त्यक्तव्यः । तद्धि- तेन कृत्स्नस्याऽग्निदेवतासम्बन्धावगतेः त्यागमन्तरेणैतदनुपपत्तेः इति चेत्- मैवम् ; “द्विर्ह विषोऽवद्यति”इत्यवदानद्वयं श्रूयते । अवदेयं चाऽङ्गुष्टपर्वमात्रम् । तथा च कल्पसूत्रकारः-(३)"आग्नेयस्य पुरोडाशस्य मध्यादङ्गुष्ठपर्वमात्रमवदानं १. अस्याऽर्थः ३.२.१४. अधिकरणे विवृतः । २. तै. सं. २.६.३.३. ३. आप. श्री. सू. २.१८.९. अङ्गुष्ठपर्व अङ्गुष्ठस्योत्तमं काण्डम् । तिरिश्चीनं तिर्यग्भिरडल्यङ्गुष्टैर्यथाऽवदानं सम्पद्येत तथा । १६ जै० न्या०