पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८० सविस्तराया जैमिनीयन्यायमालायां [अ. ३.पा. ४.अधि.१६. अथ पञ्चदशं दातुरश्वप्रतिग्रहेष्टयधिकरणम् ॥ १५ ॥ पञ्चदशाधिकरणमारचयति- यावतः प्रातगृह्णीयादश्वांस्तावत्य इष्टयः । प्रतिग्रहीतुर्दातुर्वा स्यादाद्योऽस्तु यथाविधि ॥ २६ ॥ असञ्जातविरोध्यर्थवादादातुः प्रजापतेः । इष्टिः श्रुता ततो दातुर्णिजर्थेऽपि विधि नयेत् ॥३०॥ पूर्वोदाहृते वाक्ये 'प्रतिगृह्णीयात् इति विधिपदश्रवणात्प्रतिग्रहीतुरिष्टिरिति चेत्- न; उपक्रमरूपेणाऽर्थवादेन दातुस्तदिष्टिप्रतीतेः । उपक्रमश्चैवं श्रूयते-"प्रजा. प्रतिर्वरुणायाऽश्वमनयत् , स स्वां देवतामार्च्छत्। स पर्यदीर्यत, स एतं वारुणं चतुष्क- पालमपश्यत् , तं निरवपत् , ततो वै स वरुणपाशादमुच्यत" इति । अनय दत्तवान् । स च दाता प्रजापतिः स्वकीयां वरुणदेवतां जलोदररोगप्रदां प्राप्तवान् । तेन च रोगेण ग्रस्तः स प्रजापतिर्विदीर्णो भूत्वा रोगपरिहारायेष्टिं कृत्वा रोगादमुच्यत इत्यत्र दातु- रिष्टिरित्यवगम्यते । असञ्जातविरोध्युपक्रमानुसारेण विधायकपदमपि 'प्रतिग्राहयेत्' इत्येवमन्तर्भावितणिजर्थपरतया व्याख्येयम् ॥ इति पञ्चदशं दातुरश्वप्रतिग्रहेष्टयधिकरणम् ॥ १५ ॥ - अथ षोडशं पानव्यापदधिकरणम् ॥ १६ ॥ षोडशाधिकरणमारचयति- सोमवामिचरुर्लोके वेदे वेन्द्रियसंक्षयः । दृष्टदोषो लौकिकेऽतो वमने विहितश्वरुः ॥ ३१ ॥ अदोषो वमनायैव लोके पानं श्रुतौ पुनः । जरणाय ततो वान्तिदोषशान्त्यै भवेच्चरुः ॥ ३२ ॥ इदमाम्नायते--(१)“सोमेन्द्रं चरुं निर्वपेच्छयामाकं सोमवामिनः” इति । तत्र लोकिके सोमवमने विहितोऽयं चरुः । कुतः ? (२)"इन्द्रियेण वा एष वीर्येण व्यृध्यते यः सोमं वमिति" इति दृष्टदोषमुपन्यस्य तच्छान्तये चरुविधानादिति चेत्- मैवम् ; लोके धातुसाम्यार्थिनो वमनायैव सोमस्य पाने सति वमनस्य दोषहेतु- १. मै. सं. २.२.१३. २. मै. सं. २.२.१३.