पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

हिरण्यधारणाधिकरणम् ] तृतीयोऽध्यायः । १७७ तामपरुध्य यजेत' इति रजस्वलाया निस्सारणेन क्रतौ तत्संवादस्याऽप्रसक्तिः । तस्मात् केवलपुरुषार्थस्याऽस्य प्रकरणादुत्कर्षः ॥ इत्येकादशं मलवद्वासोधिकरणम् ॥ ११ ॥ - अथ द्वादशं हिरण्यधारणाधिकरणम् ॥ १२ ॥ द्वादशाधिकरणमारचयति- हिरण्यं वर्णवद्भार्यं क्रत्वङ्गं भरणं भवेत् । हिरण्यसंस्कृतिर्वाऽत्र वर्णो वोत पुमर्थता ॥ २१ ॥ वैदिकत्वात्क्रतुस्मृत्या तदङ्गं कर्मकारके । प्राधान्यात्संस्कृतिर्वर्णो गुणोऽस्तु विधिलाघवात् ॥ २२ ।। अनारभ्य श्रुतत्वेन नियता न क्रतुस्मृतिः। अतः पुमर्थता स्वर्गः कल्प्योऽन्यद्वाऽस्तु रात्रिवत् ॥ २३ ।। अनारभ्य श्रूयते-(१)"तस्मात्सुवर्णं हिरण्यं भार्यम् । सुवर्ण एव भवति । दुर्वर्णोऽस्य भ्रातृव्यो भवति" इति । तत्र यदेतच्छोभनवर्णोपेतहिरण्यधारणं तस्य वैदिकक्रियारूपत्वेन क्रतुस्मारकत्वात्क्रत्वङ्गं धारणमित्येकः पक्षः। क्रत्वङ्गत्वेऽपि नाऽऽरादुपकारकम् । किन्तु क्रतुगतं हिरण्यं धारणेन संस्क्रियते । भार्यम्' इत्यत्र ण्यत्प्रत्ययस्य कर्मणि विहितत्वेन कर्मकारकस्य हिरण्यस्य प्राधान्याव- गमादिति द्वितीयः पक्षः । वर्णविशिष्टधारणविधाने गौरवाद्धारणसहितं हिरण्यमनूद्य शोभनवर्णमात्रं विधेय- मिति तृतीयः पक्षः । त्रेधाऽपि क्रत्वर्थो विधिः, न तु पुरुषार्थ इति प्राप्ते- ब्रूमः-यद्धि क्रतुप्रकरणे श्रुतम् , तस्याऽस्ति नियमेन क्रतुस्मारकत्वम् । इदं त्वनारभ्याऽधीतम् । न चाऽत्र हिरण्यं जुह्वादिवत्क्रतावव्यभिचरितम् , येन क्रतुस्मृति- र्नियम्येत । ननु संस्कार्यवान्यथानुपपत्त्या क्रतुप्रवेशः स्यात् । न हि धारणेन संस्कृ- - अनालम्भुका अस्पृश्या रजस्वलेति यावत् , तां अपरुध्य यज्ञशालातो बहिरेव निरुध्य यागं कुर्यात् इत्यर्थः । १. ते. ब्रा. २. २. ४. ५. ( यस्मादेवं प्रजापतेः प्रियं शरीरमेव सुवर्णमभवत् ) तस्मात् पुरुषेण हस्तकर्णादौ कटककुण्डलादिरूपेण सुवर्णधारणं कर्तव्यम् । तेन च लोकद्वयेऽपि रमणीयो भवति । अस्य शत्रुः दुर्वर्णो भवति इत्यर्थः ।