पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७६ सविस्तरायां जैमिनीयन्यायमालायां [अ. ३. पा. ४.अधि.११ अथ दशममवगोरणाधिकरणम् ॥ १०॥ दशमाधिकरणमारचयति- विप्रायाऽवगुरेन्नेति क्रत्वर्थों वा पुमर्थता । फलवत्क्रतुसान्निध्यात्क्रत्वर्थः पूर्वमन्त्रवत् ॥ १८ ।। यातनापरिहारस्य निषेधफलतोचिता । निषेधोऽयं पुमर्थत्वात्प्रक्रियातोऽपकृष्यताम् ॥ १९ ॥ दर्शपूर्णमासप्रकरणे श्रूयते-(१) “यो ब्राह्मणायाऽवगुरेत्तं शतेन यातयात् । तस्माद्ब्राह्मणाय नाऽवगुरेत्” इति । तत्र यथा पूर्वाधिकरणे मन्त्रपाठस्य फलरहितस्य फलवति क्रतावङ्गत्वं प्रकरणेनाऽवगम्यते, एवमत्राऽपि ब्राह्मणावज्ञानिषेधस्य क्रत्वङ्गत्व- मिति चेत्- न; वैषम्यात् । पूर्वत्र हि आत्मनि प्राणापानधारणं मन्त्रोच्चारणफलं न सम्भवति, तस्य प्रागेव सिद्धत्वात् । इह तु अवगोरणे शतसंवत्सरयातनामुपन्यस्याऽवगोरणनिषे- धाद्यातनापरिहारस्य निषेधफलत्वमुचितम् । तस्मात् निषेधस्य केवलपुरुषार्थतया प्रक- रणादुत्कर्षो युक्तः ॥ इति दशममवगोरणाधिकरणम् ॥ १० ॥ अथैकादशं मलवद्वासोधिकरणम् ॥ ११ ॥ एकादशाधिकरणमारचयति- न संवदेत मलद्वाससेत्यपि पूर्ववत् । पुमर्थः स्यात्क्रतौ क्वापि संवादस्याऽप्रसक्तितः ॥ २० ॥ दर्शपूर्णमासप्रकरणे श्रूयते-(२)“मलवद्वाससा न संवेदत' इति । अस्य निषेधस्य प्रकरणात्क्रत्वङ्गत्वमिति चेत्- मैवम् ; अप्रसक्तप्रतिषेधप्रसङ्गात् । (३)“यस्य व्रत्येऽहन् पत्न्यनालम्भुका भवति, - " १. यः ब्राह्मणं प्रति अवगुरेत् हन्तुमुद्युञ्जीत तं शतेन यातयात्, शतसंवत्सर- निस्तार्यां नरकयातनामनुभावयेत् । अतः कारणात् ब्राह्मणं प्रति न कदाऽपि वधो- द्यमं कुर्यात् । वधोऽत्र ताडनमात्रम् । ताडनार्थं दण्डोद्यमोऽवगोरणमिति खण्डदेवा- शयः । अवज्ञामात्रमिति माधवाशयः । २. ते. सं.२.५.१. मलवद्वासाः रजस्वला । ३. ते. ब्रा. ३. ७. १. ९. यस्य यजमानस्य पत्नी व्रत्येऽहनि यागानुष्ठान दिने