पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७८ सविस्तरायां जैमिनीयन्यायमालायां [अ. ३. पा. ४. अधि. १३ तस्य हिरण्यस्य लौकिकः कश्चिदुपयोगोऽस्ति इति चेत्-न; क्रतावप्युपयोगाभावात् । क्रतूपयोगोऽपि कल्प्यत इति चेत्-न; क्रतूपयोगित्वेन संस्कार्यत्वम् , तेन च क्रतू- पयोगः इत्यन्योन्याश्रयात् । न च कर्मकारकत्वात्संस्कार्यत्वम्, परसमवेतक्रियाफल- शालित्वमात्रस्य कर्मलक्षणत्वात् । अतः क्रतौ नियन्तुमशक्यत्वात्पुरुषार्थमिदं धारणम् । न चाऽत्र फलाभावः, विश्वजिन्न्यायेन स्वर्गस्य कल्प्यत्वात् । अथवा रात्रिसत्रे यथा वाक्यशेषेणाऽर्थवादेन श्रुता प्रतिष्ठा फलत्वेन कल्पिता, तथाऽत्रापि "सुवर्ण एव भवति, दुर्वर्णोऽस्य भ्रातृव्यः” इत्यर्थवादगतं फलमस्तु । तस्मात् पुरुषार्थो धारणविधिः ॥हिरण्यधारणाधिकरणम् ॥ १२ ॥ अथ त्रयोदशं जयादीनां इति द्वादशं वैदिककर्माङ्गत्वाधिकरणम् ॥ १३ ॥ त्रयोदशाधिकरणमारचयति- येनेर्सेकमणा तत्र जयहोमेऽखिलार्थता । वैदिकेष्वेव वा सर्वशेषोऽसंकोचकत्वतः ॥ २४ ॥ होम आहवनीये स्यात्कृष्यादिषु न सोऽस्ति हि । तेनाऽनारभ्यपाठेऽपि वैदिकेष्वेव ते जयाः ॥ २५॥ अनारभ्य श्रूयते-(१)“येन कर्मणेर्सेत् , तत्र जयान् जुहुयात्" "राष्ट्रभृतो जुहोति" "अभ्यातानाजुहोति" इति । ईर्सेदृद्धिमिच्छेत् । “चित्तं च स्वाहा” इत्यादयो जयाः। "ऋताषाड्' इत्यादयो राष्ट्रभृतः । "अग्निभूतानाम्' इत्याः दयोऽभ्यातानाः । तत्र वैदिकर्मणेव लौकिककृष्यादिकर्मणाऽप्यृद्धरिष्यमाणत्वात् , संकोचे कारणाभावाज्जयादिहोमः सर्वशेष इति चेत्- मैवम् ; (२)“यदाहवनीये जुह्वति, तेन सोऽस्याभीष्टः प्रीतः” इति वाक्येन होममुद्दिश्याऽऽहवनीयविधानात् । कृष्यादौ तदभाद्वैदिकेष्वेव जयादिहोमः ॥ इति त्रयोदशं जयादीनां वैदिककर्माङ्गत्वाधिकरणम् ॥ १३ ॥ १. येन कर्मणाऽनुष्ठितेन तदुक्तफलापेक्षयाऽधिकफलप्राप्तिरूपां ऋद्धि प्राप्तुमभिल- षेत् तस्मिन् कर्मणि जयाख्यान् 'चित्तं च' इत्यादिमन्त्रकरणकान् त्रयोदश होमान् जुहु. यात् । एवं “अग्निभूतानामधिपतिः” इत्यादिमन्त्रकरणका अष्टादशाऽऽहुतीः, ऋता. षावृतधामा' इत्यादिमन्त्रसाध्याः द्वाविंशतिमाहुतीश्च जुहुयादित्यर्थः । ते.सं. ३.४.६.१. एतेषां जयाभ्यातानराष्ट्रभृच्छब्दवाच्यत्वं देवानां जयप्राप्तिहेतुत्वात् असुरपराभव- हेतुत्वात् राष्ट्रप्रापकत्वाच्च क्रमशो बोध्यम् । विस्तरस्तु तैत्तिरियसंहितायां तृतीय- काण्डे चतुर्थप्रपाठके चतुर्थपञ्चमषष्ठेष्वनुवाकेष्ववगन्तव्यः । २. तै. ब्रा. १. १. १०.५. अत्राऽऽहवनीये इति सप्तम्या आहवनीयस्याऽधिकर- " ,