पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७२ सविस्तरायां जैमिनीयन्यायमालायां [अ.३. पा. ४. अधि.६ देवेभ्यो धारयति' इति । अत्र 'पित्र्यं हविर्होतुं हस्ते धारयन्यदा मन्त्रं पठति, तदानीं स्रुग्दण्डस्याऽधस्तात्समिधं धारयेत्' इति यद्विधीयते, तदेतदैविकेनोपरिधारणेन स्तूयते । हिशब्देन पूर्वाधिकरण इवाऽनुवादत्वप्रतीतेरिति चेत्- मैवम् ; दैविके हविषि स्रुग्दण्डस्योपरि समिद्धारणस्याऽपूर्वार्थत्वेन विधातव्य- त्वात् । अनुवादत्वगमको हिशब्दोऽसंभवादुपेक्षणीयः ॥ इति पञ्चमं उपरिधारणविध्यधिकरणम् ॥ ५ ॥ अथ षष्ठं दिग्विभागाधिकरणम् ॥ ६ ॥ षष्टाधिकरणमारचयति- दिशं प्रतीचीं मनुजा व्यभजन्तेत्यसौ विधिः । वादो वाऽत्र पुराकल्पस्तुत्यर्थो विधिमर्हति ॥ १० ॥ प्राचीनवंशवाक्योक्तेर्विधावस्यैकवाक्यतः । दिग्विभागोऽर्थवादोऽयमुपवीते निवीतवत् ॥ ११ ॥ ज्योतिष्टोमे श्रूयते-(१)"प्राचीनवंशं करोति, देवमनुष्या दिशो व्यभजन्त प्राची देवाः, दक्षिणा पितरः, प्रतीची मनुष्याः, उदीची रुद्राः, यत्प्राचीनवंशं करोति देवलोकमेव तद्यजमान उपावर्तते” इति । तत्र देवादीनां कर्मानधिकारान्न तत्र विधि- शङ्का । मनुष्याः प्रतीची विभजेयुरित्येवं विधिः स्यात् । कुतः ? पुराकल्परूपेणाऽ- र्थवादेन स्तूयमानत्वात् । पूर्वपुरुषाचरितत्वाभिधानं पुराकल्पः । 'व्यभजन्त' इत्यनेन भूतार्थवाचिना तदभिधीयते । तस्मात् विधिरिति पूर्वपक्षः । १. (तै. सं. ६.१.१) ज्योतिष्टोमाख्ये प्रकृतिभूतसोमयागे दीक्षोपसत्प्रवाद्यनुष्ठा- नार्थं निर्मायमाणः मण्डपविशेषः प्राचीनवंशः, प्राग्वंश इति वोच्यते। प्राचीनः प्रागग्रः पृष्ठवंशः ( मध्यवंशः ) यस्मिन् मण्डपे स प्राचीनवंशः । तत्रत्यास्सर्वे वंशाः प्रागग्रा भवेयुरित्यपि केचित् । तै. सं. भाष्ये १ भागे २२२ पृष्ठे (पुना सं.) द्रष्टव्यम् । देवमनुष्या इत्यादेरयमर्थः-देवाः, पितरो, मनुष्याः, रुद्राश्च प्राच्यादीर्दिशः आ- स्मार्थे विभागमकुर्वन् । तत्र देवाः प्राची दिशमगृह्णन्-अस्मत्कार्येषु इयमेव दिगस्त्विति। एवं पितरो दक्षिणां दिशं, मनुष्याः प्रतिचीम् , रुद्रा उदीचीम् । अतो मण्डपस्याऽस्य देवसम्बन्धित्वात् प्राचीनवंशर्व युक्तम् । तेन च यजमानो देवलोकं प्राप्नोतीति । तत्र 'प्राचीनवंशं करोति' इति विधिः । 'देवमनुष्या' इत्यादिरर्थवादः ।