पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परुषिदिताद्यधिकरणम् ] तृतीयोऽध्यायः । १७३ सिद्धान्तस्तु-- --यस्य मण्डपविशेषस्योपरिवंशाः प्रागग्रा भवन्ति स प्राची- नवंशः। तद्विध्येकवाक्यत्वावगमादर्थवादः। सायंकालीनाध्यादौ प्रतीची प्राप्त ॥ इति षष्ठं दिग्विभागाधिकरणम् ॥ ६ ॥ > अथ सप्तमं परुषिदिताद्यधिकरणम् ॥ ७ ॥ सप्तमाधिकरणमारचयति- परुषि छिन्नमित्युक्त्या बर्हिषस्तु समूलताम् । घृतं दैवं मस्तु पित्र्यमित्युक्त्या नवनीतकम् ॥ १२ ॥ यो विदग्धः स इत्युक्त्या पुरोडाशस्य पक्वताम् । स्तौति पूर्वोत्तरौ पक्षौ योजनीयौ निवीतवत् ॥ १३ ॥ (१)दर्शपूर्णमासयोः पिण्डपितृयज्ञे श्रूयते-(२)“यत्परुषि दितं तद्देवानाम् , यदन्तरा तन्मनुष्यणाम् , यत्समूलं तत्पितृणाम् , समूलं बर्हिर्भवति व्यावृत्त्यै” इति । परु पर्व । दितं खण्डितम् । तथा ज्योतिष्टोमे दीक्षार्थाभ्यङ्गे श्रूयते-(३)"घृतं देवा- नां, मस्तु पितृणाम् , निष्पक्कं मनुष्याणाम् , तद्वा एतत्सर्वदेवत्यं यन्नवनीतम् , यन्न- वनीतेनाऽभ्यङ्क्ते सर्वा एव देवताः प्रीणाति' इति । (४)मस्तु दधिभवं मण्डम् । निष्प- क्वं शिरसि प्रक्षेतमीषद्विलीनं नवनीतं तक्रं वा । दर्शपूर्णमासयोः पुरोडाशश्रपणे श्रूयते-(५) यो विदग्धः स नैर्ऋतः, योऽश्वृतः स रौद्रः, यः श्रृतः स सदेवः, तस्माद- १. इदं तु चिन्त्यम् । साकमेधपर्वान्तर्गतमहापितृयज्ञ एवाऽस्य वाक्यस्य श्रवणात् । २.ते. ब्रा. १.६.८. यदर्हिः पर्वणि सन्धौ दितं लूनम् , तद्देवानामर्थे भवति । दैविकेषु कर्मसूपयोजयेदिति यावत् । यत् बर्हिः पर्वणः अग्रभागस्य च मध्ये खण्डित, तत् मनुष्याणामर्थे । यत्तु मूलविशिष्टं, तत् पितॄणां प्रियम् । अतोऽस्मिन् पैतृके कार्ये वर्हिः समूलमेव भवेत् । किमर्थम् ? व्यावृत्यै दैविककर्मतो भेदज्ञापनाय । ३. घृतमित्यादि । तै. सं. ६.१.१. ४. नवनीतस्य पाकजन्यास्तिस्रोऽवस्थाः-पक्वं, किञ्चित्पक्वं, निश्शेषपक्वं चेति । द्रव्यान्तरप्रक्षेपेण सुरभि निश्शेषपक्वमिति तैत्तिरीयभाष्ये सायणाचार्याः । अत्रत्योऽर्थस्तु तेन सह विरुन्धे । ५. ते . सं. २.६.३. यः पुरोडाशो विशेषेण दग्धः कृष्णतामापद्यते स नि- ज्रतिभागो भवेत् । यः अपक्वः ( अर्धपक्वः ) स रुद्रभागो भवेत् । यस्समु. चितं पक्वः स देवाहः । अतो यथा विदग्धो न भवेत् तथा पुरोडाशः पक्तव्यः । , . । .