उपरिधारणविध्यधि.] तृतीयोऽध्यायः। ० १७१ , , प्रेताग्निहात्रे श्रूयते-(१) प्राचीनावोती दोहयेद्यज्ञोपवीती हि देवेभ्यो दोह- यति" इति, (२)"ये पुरोदञ्चो दर्भाः तान् दक्षिणाग्रान्स्तृणीयात्" इति । तत्र मृत- स्याऽग्निहोत्रे दोहने प्राचीनावीतम् , दर्भास्तरणे दक्षिणाप्रत्वं च यथा विधीयते, तथा मरणात्पूर्वं जीवतोऽग्निहोत्रे दोहनाङ्गमुपवीतम् , दर्भास्तरणाङ्गमुत्तराग्रत्वं च विधात- व्यम् । 'देवेभ्यो यज्ञोपवीती दोहयेत्' 'मरणात्पुरा ये दर्भास्त उदञ्चः कार्याः' इति वचनव्यक्तिः । न ह्येतदुभयमन्यतः प्राप्तम् । मिति चेत- तस्मात् अपूर्वार्थो विधीयता- मैवम् हिशब्देन यच्छब्देन चोभयत्राऽनुवादत्वप्रतीतेः। अस्ति च तयोः प्राप्तिः । "अग्रवन्त्युदगग्राणि” इति स्मृत्या सर्वस्मिन्दैविके कर्मणि प्राप्तमुत्तराग्रत्वमनूद्य विधेयं दक्षिणाग्रत्वं स्तूयते । तथा दर्शपूर्णमासयोः “उपव्ययते” इत्यनेन विधिना प्राप्तं दैविक- मुपवीतमनूद्य विधेयं प्राचीनावीतं स्तूयते । तस्मादनुवादः ॥ इति चतुर्थं उदक्त्वाधिकरणम् ॥ ४ ॥
- अथ पञ्चमं उपरिधारणविध्यधिकरणम् ॥ ५ ॥ पञ्चमाधिकरणमारचयति- धारयत्युपरिष्टाद्धि देवेभ्य इति संस्तवः । विधिर्वाऽऽद्यो धृतेः पित्र्ये प्रोक्तायाः पूर्ववत्स्तुतिः॥ ८॥ ऊर्ध्वं विधारणं प्राप्तं समिधो नाऽन्यमानतः । अतो हिशब्दसंत्यागादपूर्वार्थो विधीयते ॥ ६ ॥ प्रेताग्निहोत्र एव श्रूयते-(३)"अधस्तात्समिधं धारयन्ननुद्रवेत् , उपरि हि विधिवच्च जुह्वत् न ब्राह्मणश्च्यवते ब्रह्मलोकात्' । बी. ध. २.. ३. १. स्पष्टार्थमिदम् । १. श. ब्रा, १२. २. ७. ६. अस्यार्थो द्वितीयाधिकरणे उक्तः । २. आप. श्री. ८. ११. ८. पुरा जीवदवस्थाकाग्निहोत्रे यत्रोदगग्रतया दर्भास्स्तृ- ताः, तत्रेदानी मृताग्निहोत्रे दक्षिणाग्रतया ते स्तरितव्या इति वाक्यार्थः । ३. “पालाशी समिधं प्रादेशमात्रीमुपरि धारयन् गार्हपत्यस्य समयार्चिहरति । (आप. श्री. ६.८. ५.) अग्निहोत्रहवणीं हविषा पूरयित्वा तां हस्ते धारयामाणः होमार्थं गार्हपत्यं गच्छेत् । तदानीं अग्निहोत्रवण्या उपरि काञ्चन समिधं पलाशवृक्षीयां नि- धाय गन्तव्यम् । सा च समित् होमार्था । तस्याश्चोपरिधारणं जोवदग्निहाने कर्तव्यम् । मृताग्निहोत्रे तु अग्निहोत्रहवण्या अधस्तात् धारयन् गच्छेत् इति प्रकृतविषय शुद्धिः ।