पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७० सविस्तरायां जैमिनीयन्यायमालायां [अ.३.पा.४.अधि.४. नुवादेन लिङ्गेन सर्वकर्मार्थमुपवीतमिति चेत- न; लिङ्गस्याऽन्यथोपपत्तेः । (१)मृताग्निहोत्रं तस्मिन्दिनेऽन्येन हूयते । तत्र "प्राचीनावीती दोहयेत्” इति विधाय तस्य स्तुतये “यज्ञोपवीती” इत्याद्यनूदितम् । अतो लिङ्गाभासेन वाधासम्भवात् करणाद्दर्शपूर्णमासाङ्गमुपवीतम् ॥ इति द्वितीयमुपवीतस्य दर्शपूर्णमासाङ्गताधिकरणम् ॥ २ ॥ अथ तृतीयं उपवीतवाक्यस्य विधित्वाधिकरणम् ॥ ३ ॥ तृतीयाधिकरणमारचयति- उपव्यानेऽनुवादो वा विधिर्वाऽऽद्यो यतः स्मृतौ। प्राप्तं, मैवमपूर्वत्वात्क्रतौ लेटा विधीयते ॥५॥ (२)"नित्योदकी नित्य यज्ञोपवीती' इति स्मृत्या प्राप्तस्य "उपव्ययते' इत्यय- मनुवाद इति चेत्- मैवम : पुरुषार्थस्य प्राप्तावपि क्रत्वर्थस्य ।प्त्यभावात्पञ्चमलकारेण दर्शपूर्णमासाङ्ग- तया विधीयते ॥ इति तृतीयं उपवीतवाक्यस्य विधित्वाधिकरणम् ॥ ३ ॥ - अथ चतुर्थ उदक्त्वाधिकरणम् ॥ ४॥ चतुर्थाधिकरणमारचयति- उपवीती हि देवेभ्यः पुरोदश्चो द्वयं विधिः । वादो वाऽस्याऽन्यतोऽप्राप्तेरपूर्वार्थो विधीयते ॥ ६ ॥ हियच्छब्दद्वयाद्वादः स्मृत्युपव्यानतो द्वयम् । सम्प्राप्तं दक्षिणाग्रत्वप्राचीनावीतयोः स्तुतिः ॥ ७॥ १. यजमाने मृते सति तद्दाहात् पूर्व मध्यपातिषु सायं प्रातःकालेषु तत्पुत्रा. दिनाऽनुष्ठेयत्वेन विहितमग्निहोत्रं मृताग्निहोत्रं प्रेताग्निहोत्रं वोच्यते । "तस्याऽभि- वान्यवत्सायै पयसाऽग्निहोत्रं जुहुयात् आशरीरस्याऽग्निभिरसंस्पर्शात्" इत्यापस्तम्बः । (आप, श्री. ९. ११.) अभिवान्यवत्सा मृतवत्सा षष्टयर्थे चतुर्थी । २. 'नित्योदको नित्ययज्ञोपवीती नित्य स्वाध्यायी वृषलान्नवर्जी । ऋतौ च गच्छन्