उपवीतस्य दर्शपूर्णमासाङ्गताधि०] तृतीयोऽध्यायः । १६९ > रहितयोः स्वतन्त्रदैविकपैतृककर्मणोरपि दर्शनात्तत्साहचर्येण स्वतन्त्रे आचार्यातिथ्या- दिमनुष्यविषये कर्मणि निवीतमित्यपरः प्रकारः । प्रकरणबलात्प्रयाजादिवद्यागधर्म इति द्वितीयः पूर्वपक्षः । अस्मिन् पक्षे मनु. ष्यग्रहणं कर्तृसम्बन्धानुवादः । षष्ठीश्रुतिप्रकरणयोरविरोधादुभयावलम्बनेन क्रतुसम्ब- न्धिमनुष्यधर्मः इति पक्षान्तरमुदेति । तच्च द्विविधम्-लोहितोष्णीषादिवदृत्विग्धर्म इत्येकः प्रकारः । क्रतावेव यन्मनुष्यप्रधानं (१)कर्माऽन्वाहार्यदानादि, तद्धर्मत्वे सत्युप- वीतसाहचर्यमप्यनुगृह्यत इत्यपरः प्रकारः। सर्वथाऽपि निवीतं नाऽर्थवाद इति प्राप्ते- ब्रूमः-अत्र प्रतीयमानं निवीतादिकं वासोविषयम् । न तु त्रिवृत्सूत्र विषयम् (२) “अजिनं वासो वा दक्षिणत उपवीय” इत्यनेन सदृशत्वात् । वस्त्रस्य च निवीतं सौ कर्याय प्राप्तम् । प्राचीनावीतोपवीतयोरवश्यमेकस्मिन् पार्श्वे वस्त्रमधः पतेत् । अतः प्राप्तेऽर्थे 'मनुष्याणाम्' इति षष्ठीश्रुतिर्न विधायिका । न च प्रकरणात्क्रत्वङ्गत्वेन विधिः, वाक्यभेदप्रसङ्गात् । उपवीतं तावद्विधीयते । अन्यथा “देवलक्ष्ममेव तत्कुरुते" इति प्रशंसावैयर्थ्यापत्तेः । तस्मिश्चोपवीतविधावर्थवादत्वेन निवीतप्राचीनावीतयोयरेकवा- क्यत्वसम्भवे पृथग्विधानमयुक्तम् । निवीतप्राचीनावीते मनुष्यपितृविषयत्वादैविके कर्मण्ययोग्ये, उपवीतं तु योग्यमिति व्यतिरेकमुखेन स्तावकंनिवीतम् । तस्मात् अर्थवादः ॥ इति प्रथमं निवीताधिकरणम् ॥ १ ॥ अथ द्वितीयमुपवीतस्य दर्शपूर्णमासाङ्गताधिकरणम् ॥ २ ॥ द्वितीयाधिकरणमारचयति- सर्वार्थमुत दर्शार्थमुपव्ययत इत्यदः । सर्वार्थमग्निहोत्रे स्यादुपवीतीति लिङ्गतः ॥३॥ दर्शाद्यर्थ प्रकरणाल्लिङ्गे स्यासिद्धिरन्यथा । दोहं मृताग्निहोत्रस्य स्तोतुमेतदनूदितम् ॥ ४ ॥ (३)"यज्ञोपवीती हि देवेभ्यो दोहयति' इत्येवमग्निहोत्रे यज्ञोपवीतस्य सिद्धवद- १. दर्शपूर्णमासयोर्दक्षिणात्वेन ऋत्विग्भ्यो देय ओदनोऽन्वाहार्यमित्युच्यते । २. ते. आ. २. १. २. ३. देवेभ्य इत्यनेन जीवदवस्था लक्ष्यते । जीवदवस्थायां यदग्निहोत्रं क्रियते तत्र तदीयहविरर्थं यज्ञोपवीती सन् गां दुह्यादिति विषयवाक्यार्थः । १५ " जै० न्या०
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१७०
दिखावट