पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६८ सविस्तरायां जैमिनीयन्यायमालायां [अ. ३. पा.४ अअि.१. गामन्तरेण केवलदेवता फलजनकत्वाभावेन पेषणं प्रयोक्तुं न प्रभवति। पौष्णस्य याग- स्य पेषणप्रयोजकत्वे तु तत्पेषणं द्विदेवके यागान्तरे गन्तुं नाऽर्हति । (१)"पूषा प्रपि- ष्टभागः” इत्यत्र यागो न श्रुत इति चेत्--मैवम् ; भागशब्दान्यथानुपपत्त्या यागस्य कल्प्यत्वात् । न हि देवतात्वमन्तरेण पिष्टद्रव्यभावत्वं सिध्यति । सति च देवतात्वे द्रव्यदेवतयोर्लाभाद्यागः कल्प्यते । तस्मात् एकदेवकयागस्य पेषणप्रयोजकत्वात् , न द्वि- देवकयागे पेषणमस्ति ॥ इति विंशं पौष्णपेषणस्यैकदेवत्ये निवेशाधिकरणम् ॥२०॥ इतिश्रीमाधवाचार्यविरचिते जैमिनीयन्यायमालाविस्तरे तृतीयाध्ययस्य तृतीयः पादः ॥३॥ अथ तृतीयाध्यायस्य चतुर्थः पादः॥ तत्र प्रथमं निवीताधिकरणम् ॥ १ ॥ चतुर्थंपादस्य प्रथमाधिकरणामारचयति- निवीतं तु मनुष्याणां विधिर्वैषोऽर्थवादकः । अपूर्वत्वात्प्रकरणान्नु क्रतोर्वा विधीयते ॥१॥ प्राप्तं निवीतं मर्त्येषु प्रायेणैतस्य दर्शनात् । उपवीतविधावेकवाक्यत्वादर्थवादता ॥२॥ दर्शपूर्णमासप्रकरणे श्रूयते-(२)"निवीतं मनुष्याणाम् । प्राचीनावीतं पितृ- णाम् । उपवीतं देवानाम् । उपव्ययते देवलक्ष्ममेव तत्कुरुते” इति। तत्र निवीतस्य पूर्व मानान्तरेणाऽप्राप्तत्वाद्विधेयत्वमभ्युपेतव्यम् । तच्च निवीतं 'मनुष्याणाम्' इति षष्ठया पुरुषार्थत्वेन विधीयते इत्येकः पूर्वपक्षः । अस्मिन् पक्षे मनुष्यसम्बन्धो द्विविधः- सुवर्णधारणवत्सर्वपुरुषसम्बन्ध इत्येकः प्रकारः । उपवीतप्राचीनावीतयोः क्रतुप्रवेश- १. तै. सं. २. ६. ८. १. (ते. सं. २. ५. ११.) 'यत्रोभावपि बाहू न्यग्भूतौ सन्तौ ब्रह्मसूत्रेण वीर्यते संवृतावाच्छादितौ क्रियेते तन्निवीतम् । तच मनुष्याणां कार्येषु प्रशस्तम् । प्राचीनो दक्षिणो बाहुराधीयतेऽधस्तात्क्रियते यत्र तत्प्राचीनावीतम् । तच्च पितृकर्मणि प्रशस्तम् । दक्षिणं वाहुमूर्ध्वं धृत्वा सव्ये बाहौ लम्बमाने सति यद्वेष्टनं तद्यज्ञोपवीतम्' इति सायणाचार्याः ।