पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पेषणस्यैकदेवत्ये निवेशाधिरणम् ] तृतीयोऽध्यायः । १६७ अथैकोनविंशं पेषणस्य चरावेव निवेशाधिकरणम् ॥१६॥ एकोनविंशाधिकरणमारचयति- चरौ पशौ पुरोडाशे चरावेवोत पेषणम् । विशेषादर्शनादेतत्सर्वेष्वपि विधीयते ॥ ४५ ॥ प्राप्तत्वान्न पुरोडाशे हृदाद्याकारनाशनात् ॥ न पशौ, पारिशेष्येण चरावेव हि पेषणम् ॥ ४६॥ "(१)पोष्णं चरुमनुनिर्वपेत्” इति चरुर्विहितः । (२) पौष्णं श्याममालभेतान्न- कामः" इति पशुविधिः । (३) पशुमालभ्य पुरोडाशं निर्वपति' इत्येतच्चोदकेन पौष्णपशौ प्राप्तम्। तत्र-'यद्देवत्यः पशुस्तद्देवत्यः पुरोडाशः' इति न्यायेन पुरोडाशस्य पूषा देवता । तत्र पूर्वोक्तं पेषणं विषयीकृत्योच्यमानाः संशयपूर्वोत्तरपक्षा विस्पष्टाः ॥ इत्येकोनविंशं पेषणस्य चरावेव विनियोगाधिकरणम् ॥१९॥ - अथ विशं पौष्णपेषणस्यैकदेवत्ये निवेशाधिकरणम् ॥२०॥ विंशाधिकरणमारचयति-- द्विदेवकेऽपि किं पिंष्यादुत पूषैकदैवके । द्विदेवकेऽपि तत्पूष्णः सत्त्वात्पेषणभागिनः ॥४७॥ देवता विफलत्वेन पेषणं न प्रयोजयेत् । यागस्य तत्चे भागोक्तेर्न यागान्तरगामि तत् ॥४८॥ इति श्रीमाधवाचार्यविरचिते जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य तृतीयः पादः ॥३॥ राजसूये श्रूयते--" "सौमापौष्णं चरुं निर्वपति, ऐन्द्रापौष्णं चरुम्" इति । तत्र द्वि देवकेऽपि चरौ पिष्टभाजः पूष्णे सत्त्वात्पेषणं पूषार्थं कर्तव्यम् इति चेत्- तत्र वक्तव्यम्-किं पेषणस्य देवता प्रयोजिका ? किं वा यागः ? नाऽऽद्यः, या- ? १. तै. सं. २. २. १. २. (ते. सं. २. १. ६. १.) अन्नकामः अन्नरूपं फलमिच्छन् पूषदेवताकेन श्यामरूपपशुद्रव्याकेण यागेनाऽन्नरूपं फलं भावयेदित्यर्थः । ३. तै. सं. ६.३.१०