पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६६ सविस्तरायां जैमिनीयन्यायमालायां [ अ. ३. पा. ३.अधि.१८ द्वितीयः । तथा सति प्रयोगक्रियाया आवृत्तिविशेषे प्रथमशब्दो मुख्यः । तदावृत्ति- विषयतया यज्ञे लाक्षणिकः । त्वत्पक्षेऽपि क्रतो मुख्यो यज्ञशब्दः, प्रयोगे लाक्षणिकः स्यादिति चेत्-वाढम् ; तथाऽप्यसञ्जातविरोधिनि लाक्षणिकत्वकल्पनाद्वरमुत्तरपदे तत्कल्पनम् । तस्माज्ज्योतिष्टोमस्य प्रथमप्रयोगे प्रवर्ग्यनिषेधः । ननु सप्तसंस्थायु. क्तस्य ज्योतिष्टोमस्य प्रथमसंस्थारूपोऽग्निष्टोमः, तत्राऽयं निषेधः पर्यवस्यति । विधिश्च तत्र श्रूयते-"अग्निष्टोमे प्रवृणक्ति' इति । एवं त_धिकारिभेदेन विधिनिषेधयोर्व्यवस्था- ऽस्तु । तथा हि श्रूयते-(१)"कामं तु योऽनूचानः स्यात्, तस्य प्रवृञ्ज्यात्' इति । तस्मात् अनूचानव्यतिरिक्तकर्तृकेऽग्निष्टोमप्रथमप्रयोग एवाऽयं निषेधः ॥ , इति सप्तदशं प्रवर्ग्याधिकरणम् ॥१७॥ - अथाऽष्टादशं पौष्णपेषणस्य विकृतौ विनियोगाधिकरणम् ॥ १८ ॥ अष्टादशाधिकरणमारचयति- प्रपिष्टभागः पूषेति प्रकृतौ विकृतावुत । इष्टिप्रकरणादेव प्रकृताविति युज्यते ॥ ४३ ।। सन्तर्दनादिवद्वाक्याद्विकृतौ पूषसम्भवात् । सिद्धस्य पुनरप्युक्तिरधिकस्य विवक्षया ॥ ४४ ॥ दर्शपूर्णमासप्रकरणे श्रूयते-(२) तस्मात्पूषा प्रपिष्टभागोऽदन्तको हि" इति। तत्र दन्तरहितस्य पूष्णः पिष्टभाक्त्वं सन्तर्दनप्रतिपदादिवत्सिद्धम् । तथाऽप्युत्तरा- धिकरणे तस्मिन्नेव विषये विशेषं वक्तुमिह प्रस्तूयते ॥ इत्यष्टादशं पौष्णपेषणस्य विकृतौ विनियोगाधिकरणम्॥१८॥ - . १. यः अनूचानः वेदतदर्थज्ञः, तेन कामं प्रवर्यः क्रियतामित्यर्थः । २. प्राशिवभक्षणार्थवादोऽयम् । तत्र हि पूर्वमेवमाम्नायते-'तत् पूष्णे पर्यह. रन् , तत्पूषा प्राश्य दतोऽरुणत्। (ते. सं २.६.८.) इति । तत् प्राशिवाख्यं हविशेष. भागं पूष्णेऽदुः । स च पूषा तं भागं दन्तैः खादन्नभक्षयत् । तेन पूष्णो दन्ता अप- तन् । तस्मात्कारणात् पूषा प्रपिष्टभागस्सम्पन्नः। प्रपिष्टं भागो यस्य सः प्रपिष्ट. भाग इति वाक्यार्थः।