पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रवाधिकरणम् ] तृतीयोऽध्यायः। १६५ - यजमानविशेषणत्वेनाऽप्युपपत्तेरिति प्राप्ते- ब्रूमः-'षष्टीसमासात्कर्मधारयो बलीयान्' इति (१)निषादस्थपत्यधिकरणे वक्ष्यते । तथा सति दीर्घत्वं सोमस्य धर्मः, न तु यजमानस्य । नन्वेवमपि प्रकृति- भूतस्य सोमस्येष्टिपश्वपेक्षया दीर्घत्वमस्त्येव इति चेत्-नः सोमशब्देनैव तदवगतौ दीर्घशब्दस्य वैयोत् । न हीष्टिपश्वपेक्षया ह्रस्वः कश्चित्सोमोऽस्ति, यस्य व्यावृत्तये दीर्घशब्दः प्रयुज्येत । तस्मात्प्रकृतिरूपं ह्रस्वं सोमं व्यावर्तयितुमयं दीर्घशब्दः । विकृतिपूक्थ्यादिषु ग्रहाधिक्यादीर्घत्वम् । द्विरात्रादिषु चाऽऽवृत्त्या दीर्घत्वम् । तस्मा- द्वाक्येन प्रकरणं बात्विा विकृतिषु तन्निवेशः। प्रकृतौ तु दीर्घशब्दस्य बाधः पूर्व- मुक्तः । सन्तर्दनबाधश्च साक्षाच्छ्रूयते-(२)"हनू वा एते यस्य यदधिषवणे न सन्तृ- णत्ति, असन्तृण्णे हि हनू” इति । तस्मात् न प्रकृतौ निवेशः ॥ इति षोडशं सन्तर्दनाधिकरणम् ॥ १६ ॥ - अथ सप्तदशं प्रवर्ग्याधिकरणम् ॥१८॥ सप्तदशाधिकरणमारचयति- न प्रवृञ्ज्यादाद्ययज्ञे क्रतौ सोऽनुष्ठितावुत । प्रतिषेधः क्रतौ युक्त उक्ता ह्यस्याऽऽद्ययज्ञता ॥४१॥ प्रवृणक्त्युपसद्भयः प्रागिति वाक्यात्क्रतौ विधेः । आद्यप्रयोगे प्राथम्यान्निषेधः क्वचिदेव सः॥ १२ ॥ ज्योतिष्टोमे प्रवाख्यं कर्म प्रकृत्य श्रूयते-(३) “न प्रथमयजे प्रवृज्यात्" इति । सोऽयं प्रतिषेधो ज्योतिष्टोमक्रतौ द्रष्टव्यः, न तु तदीयप्रथमप्रयोगे। कुतः ? (४)“एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमः” इति तस्य प्रथमयज्ञत्वाभिधानात् इति चेत्-- मैवम् ; "पुरस्तादुपसदां प्रवर्ग्य प्रवृणक्ति” इति वाक्येन क्रतौ प्रवर्ग्यस्य विहि- तत्वात् । न च विधिनिषेधवाक्ययोः समानबलत्वादनिर्णयः, निषेधवाक्ये प्रथमश- ब्देन निषेधस्य प्रयोगपरत्वनिर्णयात् । प्रथमद्वितीयादिशब्दाः क्रियाया आवृत्तौ मु- ख्याः तत्सम्बन्धाद्वस्तुषूपचर्यन्ते । प्रथममध्येतव्यत्वात्प्रथमं काण्डम् , तदनन्तरम. ध्येतव्यत्वाद्वितीयं काण्डम् । एवं आदावुत्पन्नत्वात्प्रथमः पुत्रः, तदनन्तरमुत्पन्नत्वा- १. पू. मी. ६.१. १२. २. तै. सं. ६. २. ११. ३. प्रथमकर्तव्ये ज्योतिष्टोमे प्रवर्याख्यं कर्म न कुर्यादित्यर्थः । ४. तां. बां. १६. १. २. ख्याः,