पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६४ सविस्तरायां जैमिनीयन्यायमालायां [अ.३.पा.३.अधि१६. 2 जाघनी नाम भागोऽसौ दर्शादौ समवैति हि । नोत्क्रष्टव्यं न संस्कार्या साधनत्वात्तृतीयया ॥ ३८ ॥ दर्शपूर्णमासप्रकरणे श्रूयते-(१)“जाघन्या पत्नीः संयाजयन्ति” इति । जाघनी पशोः पुच्छम् । पत्नीशब्दोऽत्राऽऽहुतिचतुष्टयात्मकस्य कर्मणो नामधेयैकदेशः। अत एव श्रूयते-“पञ्च प्रयाजा इज्यन्ते, चत्वारः पत्नीसंयाजाः" इति । तत्र तृती. याहुतौ(२) देवपत्नीनां देवतात्वात्तद्द्वारा कर्मनाम्नः पत्नीसंयाजशब्दस्य प्रवृत्तिः । तत्र जाघनीमुद्दिश्य पत्नीसंयाजसंस्कारो विधीयते । जाघनी च(३) पशौ समवेता न तु दर्शपूर्णमासयोः । अतः प्रकरणादुत्कृष्य पशौ निवेशनं इति प्राप्ते- ब्रूमः-जाघनीशब्देन पशोर्भागोऽभिधीयते । स च दर्शपूर्णमासयोः पशुयाग. त्वाभावेऽपि क्रयादिना सम्पादयितुं शक्यते। न चाऽत्र पशौ विद्यमानाया जाघन्या पत्नीसंयाजैः संस्कार्यत्वम् , तृतीयया साधनत्वावगमात् । तस्मात् न प्रकरणादुत्कर्षः॥ इति पञ्चदशं जाघन्य धिकरणम् ॥ १५ ॥ अथ षोडशं सन्तर्दनाधिकरणम् ॥ १६ ॥ षोडशाधिकरणमारचयति- सन्तृद्येदीर्घसोमे तत्प्रकृतौ विकृतावुत । दीर्घस्य सोम इत्युक्ते प्रकृतावस्तु तर्दनम् ॥ ३९ ॥ सामानाधिकरण्यस्य पष्ठीतो बलवत्वतः । दैर्ध्ययुक्तोक्थ्यसंस्थादावुत्कर्षोऽन्यत्र बाधनात् ।। ४०॥ ज्योतिष्टोमे श्रूयते-(४)“दीर्घसोमे सन्तृद्ये धृत्यै” इति । सोमयागविशेषो दीर्घसोमः । तस्मिन्सोमाभिषवाधारयोः (५)अधिषवणफलकयोः संतदनं कार्यम् । अन्योन्यवियोगेन शैथिल्यं मा भूदिति दृढसंश्लेषः सन्तर्दनम् । तदेतत्प्रकरणबलात्प्र- कृतौ निविशते । न च दीर्घसोमत्वानुपपत्तिः । 'दीर्घस्य सोमः' इत्येवं दीर्घशब्दस्य १. पत्नीसंयाजाख्यं कर्म जापनीद्रव्येण कुर्यादित्यर्थः । तृतीयाहुतौ 'इन्द्राण्यग्नाव्यश्विनीरा आरोदसी वरुणानी शृणोतु' इतीन्द्राण्या- दीनां देवपत्नीनां श्रुतत्वात्ता एवाऽत्र देवताः । एवञ्च पत्नीदेवताकत्वात्कर्मणोऽस्य पत्नीसंयाजसंज्ञा। ३. पशौ पशुयागे। ४. तै. सं. ६. २. ११. ५. सोमो ययोः फलकयोनिधायाऽभिषूयते ते अधिषवणफलके । 1 २.