पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

जाघन्यधिकरणम् ] तृतीयोऽध्यायः । १६३ यजमानस्य नानात्वं साक्षाद्विकृतिषु श्रुतम् । उत्कृष्य प्रतिपत्तेन कुलायादिषु नीयताम् ॥ ३६ ।। ज्योतिष्टोमे श्रूयते-(१) “युवं हि स्थः स्वर्पती इति द्वयोर्यजमानयोः प्रतिपदं कुर्यात् । एते असृग्रमिन्दवः इति बहुभ्यो यजमानेभ्यः" इति । स्तोत्र- स्योपक्रमे पठनीयामृचं प्रतिपच्छब्दोऽभिधत्ते । सा चोदाहृता प्रतिपत्प्रकरणाज्ज्योति- ष्टोमे निविशते । न च तत्र यजमान द्वित्वयोरसम्भवः, एकस्य यजमानस्य द्रव्याला- भादिना तदशक्तौ नित्यकर्मणः परित्यागासम्भवेन द्वाभ्यां बहुभिर्वा तस्याऽवश्यकर्त- व्यत्वात् इति प्राप्ते- ब्रूमः-यजमानद्वित्वं कुलायनामके यज्ञे साक्षादाम्नातम्-(२)“एतेन राजपुरो- हितौ सायुज्यकामौ यजेयाताम्” इति । यजमानबहुत्वं सत्रेष्वाम्नातम्-(३)"चतु- र्विशतिपरमाः सत्त्रमासीरन्” इति । ततो द्विशब्दबहुशब्दरूपाभ्यां श्रुतिभ्यां प्रकरणं बाधित्वा कुलायादिषु यथोक्तप्रतिपदोरुत्कर्षः कर्तव्यः । न चाऽशक्तावपि यजमानद्वित्व- बहुत्वे सम्भवतः, अशक्तेन स्वीकृतस्य पुरुषान्तरस्य प्रतिनिधित्वे यजमानत्वाभावात् । 'यजमानस्य प्रतिनिधिर्नाऽस्ति' इति (४)वक्ष्यते । यद्यन्यः पुरुषः स्वयमेव प्रवर्तते तदानीं स्वीकीयमेव प्रयोगं कुर्यात् , न त्वशक्तस्य साहाय्यमाचरेत् । तस्मात् श्रूयमाण- स्य यजमानैकत्वस्य कालादिवदनुपादेयाङ्गत्वेन त्यक्तुमशक्यत्वान्न ज्योतिष्टोमे यजमा- - - नस्य द्वित्वबहुत्वे सम्भवतः ॥ इति चतुर्दशं प्रतिपदधिकरणम् ॥ १४ ॥ अथ पञ्चदशं जाघन्यधिकरणम् ॥ १५ ॥ पञ्चदशाधिकरणमारचयति- संयाजयन्ति जाघन्या पत्नीरेतत्पशावुत । दर्शादौ, तत्पशौ युक्तं जाधन्याः समवायतः ॥ ३७ ॥ १. ( तां. वा. ६. ९. १३.) द्वौ यजमानौ मिलित्वा यं ऋतुमनुतिष्टतः तत्र क्रतौ बहिष्पवमानाख्ये प्रथमस्तोत्रे 'युवं स्थ' इति ऋचं प्रथमं प्रगायाऽनन्तरमन्या गातव्याः । यस्मिन् कतौ बहवो यजमानाः, तत्र ऋतौ तस्मिन् स्तोत्रे ‘एते असृग्रमि- न्दव' इति ऋक् प्रथमं पठनीयेति विषयवाक्यार्थः । २. राजा च पुरोहितश्च राजपुरोहिताविति विग्रहष्षाष्टसिद्धान्तानुसारेण बोध्यः । ३. 'सप्तदशावराः चतुर्विंशतिपरमा' इति समग्रं वाक्यम् । अत्र सप्तदश संख्या न्यूनावधिर्यजमानेषु, चतुर्विशतिसंख्या परमावधिः । ४. पू. मी. ६. ३. ७.