पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६२ सविस्तरायां जैमिनीयन्यायमालायां [अ.३.पा.३.अधि.१४. - इति । एकेनाऽहा निष्पाद्यत्वात्साह्रो ज्योतिष्टोमः। दीक्षादिवसादूर्ध्वं सोमाभिषवदिव- सात्पूर्व कर्तव्या होमा उपसदः । तासां द्वादशत्वं प्रकरणबलाज्ज्योतिष्टोमे निविशते । अहीनशब्दश्च तस्मिन्नेव कल्पते । ज्योतिष्टोमस्य निखिलसोमयागप्रकृतित्वेन सर्वेषा- मङ्गानां तत्रोपदेशे सति तदुपदेशविकलविकृतीनामिव हीनत्वाभावात् । अतो द्वादश- त्वत्रित्वयोर्विकल्प इति प्राप्ते- ब्रूमः-आवृत्तसोमयागरूपो द्विरात्रत्रिरात्रादिरहर्गणः । तस्मिन्नहीनशब्दो रूढः । यौगिकत्वे तु 'न हीनः' इति विगृह्य समासे कृते सत्ययज्ञादिशब्दवदायुदात्तः(१)स्या- त् । मध्योदात्तस्त्वाम्नायते । रूढिश्च विग्रहनिरपेक्षत्वाच्छीघ्रबुद्धिहेतुः । अतो ज्योति- ष्टोमवाचिनः साह्रशब्दाद्भिन्नेयं (२)अहीनसंज्ञा ज्योतिष्टोमाद्भिन्नमहर्गणमभिधत्ते । तस्मिन्नहर्गणे षष्ठीश्रुत्या तदुक्तं द्वादशत्वं निवेश्यते । तत्सिद्धये प्रकरणादिदमप- नेतव्यम् ॥ इति त्रयोदशमहीनाधिकरणम् ॥ १३ ॥ अथ चतुर्दशं प्रतिपदधिकरणम् ॥ १४ ॥ चतुर्दशाधिकरणमारचयति- युवं हीति द्वयोः कर्त्रोर्बहूनां चैत इत्यमूम् । कुर्यात्प्रतिपदं ज्योतिष्टोमे साऽहर्गणेऽथवा ॥ ३४ ॥ एकस्य शक्तिराहित्ये द्वाभ्यां बहुभिरेव वा । ज्योतिष्टोमस्य कार्यत्वात्प्रकृतेऽत्रैव सा भवेत् ॥ ३५ ॥ तिस्र एव । अहीनस्याऽनेकसुत्याकस्य क्रतोस्तु द्वादश उपसद इत्यर्थः । अत्र पूर्वपक्षे अहीनशब्दो 'न हीनः अहीनः इति व्युत्पत्या ज्योतिष्टोमवाच्येव । सिद्धान्ते तु 'अह्नः खः क्रता' विति सूत्रविहितखप्रत्ययान्तत्वादहीनशब्दोऽहस्समूहवाचीति ध्येयम् । १. अयं भावः-न हीनः अहीन इति विग्रहे तस्य नञ् समासत्वात् 'नञ् सु- भ्यामि'त्यनेन सूत्रेणाऽऽद्युदात्तस्स्यात् । अहन् शब्दात् 'तस्य समूह' (पा.सू.४.२.३५) इत्यनुवृत्तिसहितेन 'अह्नः खः क्रता' विति वार्तिकेण खप्रत्यये कृते, तस्य च 'आयने- यीनीयियः फढखछघां प्रत्ययादीनामि' (पा.सू. ७.१.२.) त्यनेन ईनादेशे च कृते तस्य 'प्रत्ययस्ये' त्यनेन आद्युदात्तस्वरविधानात् ईकारस्योदात्तस्वरे प्राप्ते 'अनुदात्तं पदमे- कवर्ज' (६.१.१५८.) मित्यनेन आद्यन्तयोरनुदात्तस्वरविधानादहीनशब्दस्य मध्यो- दात्तत्वमिति । २. द्विरात्रप्रभृतिष्वेकादशरात्रान्तेष्वहर्गणेषु अहीनशब्दो रूढ इति दशमे वक्ष्यते।