पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अहीनाधिकरणम् ] तृतीयोऽध्यायः। M ३ १ अथ द्वादशं प्राप्ताप्राप्तबाधभेदाधिकरणम् ॥ १२॥ द्वादशाधिकरणमारचयति- बाधो न युक्तो युक्तो वा प्राप्त्यप्राप्त्योर्न युज्यते । अप्रवृत्तं प्रसक्तं यद्धिया तस्याऽस्तु बाध्यता ।। २६ ।। प्रमाणतः प्रसक्तस्य बाधो दाशमिकोऽत्र तु । विभ्रमेण प्रसक्तस्य तस्मादप्राप्तबाधनम् ॥ ३० ॥ प्राप्तस्य प्रवृत्तिरस्तीति न तन्निवारणं शक्यम् । अप्राप्तस्य बाधाविषयत्वेनाऽवस्था- नमेव नाऽस्ति । तस्मात् न युक्तो बाध इति चेत्-- मैवम् :

बुद्धया विषयीकृतस्य वारयितुं शक्यत्वात् । न चैतदत्यन' प्रवृत्तम् ,

अनुष्ठानरूपफलपर्यवसानाभावात् । नाऽप्यत्यन्तमप्रवृत्तम् , तद्बुद्धेरुत्पन्नत्वात् । अतो नोक्तदोषद्वयम् । दशमे (१)चोदकप्रमाणेनाऽवबुद्धोऽर्थो बाध्यत इति प्राप्तबाधः । इह तु पूर्वपूर्वप्रमाणविरुद्धरुत्तरोत्तरैः प्रमाणाभासैरवबुद्धस्येत्यप्राप्तबाधः ॥ इति द्वादशं प्राप्ताप्राप्तवाधभेदाधिकरणम् ॥ १२ ॥ अथ त्रयोदशमहीनाधिकरणम् ॥ १३ ॥ (२)त्रयोदशाधिकरणमारचयति- तिस्र एव हि साह्ने स्युरहीने द्वादशेत्यतः । ज्योतिष्टोमे द्वादशत्वमथवाऽहर्गणे भवेत् ॥ ३१ ॥ अस्तु प्रकरणादाद्यो नाऽहीनत्वं विरुध्यते । प्रकृतित्वान्न केनाऽपि हीनोऽतोऽत्र विकल्प्यताम् ॥ ३२ ॥ साह्नाद्भिन्नाऽहीनसंज्ञा रूढैषाऽहर्गणे भवेत् । पष्ठीश्रुत्या द्वादशत्वं प्रक्रियातोऽपकृष्यताम् ॥ ३३ ॥ ज्योतिष्टोमप्रकरणे श्रूयते—(३)"तिस्र एव साहस्योपसदो द्वादशाऽहीनस्य" १. चोदकः अतिदेशः प्रकृतिवद्विकृतिः कर्तव्येत्यादिरूपः । २. एवं तावदङ्गत्वबोधकप्रामाणानां विरोधे बलाबलं निरूप्याऽधुना विरोध एव क्वाऽस्ति क्व च नाऽस्तीति चिन्तार्थमुत्तरः प्रपञ्चो यावदध्यायसमाप्ति । ३. (तै.सं. ६.२.५.१.) अह्ना सह वर्तत इति साह्रः ज्योतिष्टोमः । तस्य उपसदः