पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६० सविस्तरायां जैमिनीयन्यायमालायां [ अ.३.पा.३.अधि.११ " अथैकादशं स्थानप्राबल्याधिकरणम् ॥ ११ ॥ एकादशाधिकरणमारचयति- शुन्धध्वमिति मन्त्रोऽङ्गं पौरोडाशिकशोधने । सांनाय्यपात्रशुद्धौ वा प्रथमोऽस्तु समाख्यया ॥ २७ ॥ पौरोडाशिकमित्यत्र प्रकृत्या तद्धितेन वा । संनिध्यनुक्तितः कल्प्यः कृप्तत्वाच्चरमः क्रमात् ।। २८ ॥ (१)"शुन्धध्वं दैव्याय कर्मणे” इत्ययं मन्त्रः ‘पौरोडाशिकम्' इति याज्ञिकैः समा- ख्याते काण्डे पठितत्वात्समाख्यया पुरोडाशकाण्डोक्तानामुलूखलजुह्वादीनामपि शोधने- ऽङ्गम् इति चेत्-- मैवम् ; 'पौरोडाशिकम्' इति समाख्यायां प्रकृतिः पुरोडाशमात्रमभिधत्ते, तद्धितप्रत्ययश्च काण्डम् । न चैतावता कृत्स्नपुरोडाशपात्राणां मन्त्रसंनिधिः प्रत्यक्षो भवति । किं त्वर्थापत्या कल्प्यते। यद्युक्तसंनिधिर्न स्यात् , तदा मन्त्रप्रतिपादकग्रन्थस्य पौरोडाशिकसमाख्या न स्यात् । न ह्यग्न्यसंनिहितानाम् “इषे त्वा" इत्यादिमन्त्राणामा- ग्नेयकाण्डसमाख्या भवति । संनिहितानां तु (२)"युञ्जानः प्रथमं मनः" इत्यादिमन्त्रा- णां भवत्येषा समाख्या । तस्मात् काण्डसमाख्यया संनिधिं परिकल्प्य तत्संनिध्यन्यथा- ऽनुपपत्त्या परस्पराकाङ्क्षारूपं कृत्स्नं पात्रप्रकरणं कल्पयित्वा तद्द्वारा वाक्यलिङ्गश्रुतीः कल्पयित्वा तया श्रुत्या विनियोग इति समाख्याया विप्रकर्षः । सांनाय्यपात्राणां शोधने मन्त्रसंनिधिस्तु प्रत्यक्षः । इध्माबर्हिस्सम्पादनस्य मुष्टिनिर्वापस्य चान्तरालं सान्नाय्य- पात्राणां(३) देश उक्तः । मन्त्रश्चेष्माबर्हिनिर्वापविषययोर्मन्त्रानुवाकयोर्मध्यमेऽनुवाके पठ्यते । तेन च प्रत्यक्षसंनिधिना प्रकरणादीनां चतुर्णामेव कल्पनात्संनिधिः संनिकृ- ष्यते । तस्मात् क्रमेण समाख्यां बाधित्वा 'सांनाय्यपात्रशोधनशेषो मन्त्रः' इत्ययं चरमः पक्षोऽभ्युपेयः ॥ इत्येकादशं स्थान प्राबल्याधिकरणम् ॥११॥ ( इति बलाबलाधिकरणसमाप्तिः ) १. तै. सं. १. १. ३. २. तै. सं. ४. १. १. ३. तैत्तिरीयसंहितायां प्रथमकाण्डे प्रथमप्रपाठके द्वितीयानुवाके इष्माबहिस्सन्नहन- मुक्तम् । तत्रैव चतुर्थेऽनुवाके मुष्टिनिर्वाप उक्तः । तयोर्मध्ये यस्तृतीयोऽनुवाकः 'शुन्धध्वं दैव्याय' इति स सान्नाय्यपात्राणां स्थानम् ।