प्रकरणप्राबल्याधिकरणम् ] तृतीयोऽध्यायः । १५९ तच्च लिङ्गं 'अनेन मन्त्रभागेणेन्द्राग्निविषयक्रियाऽनुष्ठेया' इति विनियोजिकां तृती- याश्रुतिं कल्पयति । ततः प्रकरणविनियोगयोर्मध्ये त्रिभिर्व्यवधानं भवति । अग्नीषोम- पदान्वयरूपं तु वाक्यं श्रूयमाणत्वाल्लिङ्गश्रुतिभ्यामेव व्यवधीयते । तस्माद्वाक्येन प्रक- रणस्य बाधितत्वात्तच्छेषस्तत्रैव व्यवतिष्ठते ॥ इति नवमं वाक्यप्राबल्याधिकरणम् ॥ ९ ॥ अथ दशमं प्रकरणप्राबल्याधिकरणम् ॥ १० ॥ दशमाधिकरणमारचयति- राजसूयेऽभिषेच्याख्ययागे ये देवनादयः । तच्छेषास्तेऽखिलार्था वा, तच्छेषास्तस्य संनिधेः॥ २५ ॥ राजसूयकथंभावानुवृत्तेः सर्वशेषता । कल्प्याकाङ्क्षाभिषेच्यस्य प्रक्रिया प्रबला ततः ॥२६॥ राजसूये (१)पश्विष्टिसोमयागा बहवः प्रधानभूताः। तत्राभिषेचनीयाख्यः कश्चि- त्सोमयागः । तस्य संनिधौ देवनादयः श्रूयन्ते-(२)“अक्षैर्दीव्यति । राजन्य जिनाति (३)शौनश्शेपमाख्यापयति” इति । जिनाति जयति । बहवृचब्राह्मणे समाम्नातं शुन:- शेपविषयमुपाख्यानं शौनश्शेपम् । तत्र संनिधिबलाद्देवानादयोऽभिषेचनीयाङ्गमिति चेत्- मैवम् ; राजसूयस्य कथंभावाकाङ्क्षायामनुवृत्तायां विहिता देवनादयः प्रकरणेन राजसूयशेषाः । बहुयागात्मक इति तत्रत्यसर्वयागशेषत्वम् । न चाऽभिषेच.राजसूयश्च नीयस्य काचिदाकाङ्क्षा देवनादिष्वस्ति, ज्योतिष्टोम विकृतित्वेनाऽतिदिष्टैः प्राकृताङ्गैरेव तदाकाङ्क्ष निवृत्तेः । संनिहितविधिबलादाकाङ्क्षोत्थाप्यत इति चेत्-अत एवाऽऽ- र्काङ्क्षारूपमवान्तरप्रकरणमादौ परिकल्प्य तद्द्वारा वाक्यलिङ्गश्रुतिकल्पनया संनिधि र्विप्रकृष्यते । राजसूयाकाङ्क्षारूपं तु महाप्रकरणं कृप्तत्वादेकया कक्षया 'निकृष्यते । तस्मात् प्रकरणेन संनिधिबाधात्सर्वशेषा देवनादयः ॥ इति दशमं प्रकरणप्राबल्याधिकरणम् ॥ १० ॥ १. 'अनुमत्यै पुरोडाशमष्टाकपालं निर्वपतो' त्यादिवाक्यर्विहिता इष्टयः, पवित्रा- भिषेचनीयदशपेयकेशवपनीयव्युष्टिद्विरात्रक्षत्रधृतिरूपास्सप्त सोमयागाः । इमे सर्वे मिलित्वा राजसूयपदवाच्याः । ते. सं. १. ९. १. २. मै. सं. ४. ४.६. ३. ऐतरेय ब्राह्मणे पञ्चमपञ्चिकायां हरिश्चन्द्रोपाख्यनरूपोऽयमितिहासः । स एव शौनश्शेप इत्याख्यायते ।
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१६०
दिखावट