पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५८ सविस्तरायां जैमिनीयन्यायमालायां [ अ.३.पा.३.अधि.९ पनाङ्गत्वस्याऽपि तद्वाक्यबोधितत्वात् । तथा सति सदनस्थापनयोरस्य मन्त्रस्य विकल्पः समुच्चयो वा निजेच्छया भविष्यति इति प्राप्ते- ब्रूमः यदेतत्पूर्वोत्तरार्धयोः परस्परान्वयेन संपन्नमेकं वाक्यम् , तदेतदुत्तरार्धस्य सदनकरणे शक्तिमकल्पयित्वा कृत्स्नं मन्त्रं सदने विनियोक्तुं नाऽर्हति । तथा पूर्वार्धस्य स्थापने शक्तिमकल्पयित्वा न तत्र प्रभवति । अतो लिङ्गकल्पनव्यवधानेन वाक्यं श्रुति प्रति विप्रकृष्यते । प्रत्यक्षं तु लिङ्गद्वयं संनिकृष्यते । तथासति लिङ्गेन वाक्यबाधादर्थ- द्वयमुभयोर्व्यवस्थितम् । ननु “ऐन्ध्र्या गार्हपत्यम्” इत्यत्राऽपि पदद्वयान्वयरूपस्य वाक्यस्य विनियोजकत्वप्रतीतेर्लिङ्गवाक्यविरोधाय तदेवोदाह्रियताम् इति चेत्-न ; तत्र लिङ्गेन वाक्ये बाधिते सत्येकैकपदस्याऽर्थप्रत्यायकत्वाभावेन श्रुतिकृतविनियोगस्या- प्यसिद्धरप्रामाण्यमेवोदाहृतस्य प्रसज्येत । इह तु महावाक्ये बाधितेऽप्यवान्तरवाक्य- योरर्थप्रतीतौ लिङ्गविनियोगः सिध्यतीत्येतदेवोदाहरणम् ॥ इत्यष्टमं लिङ्गप्राबल्याधिकरणम् ॥ ८ ॥ अथ नवमं वाक्यप्राबल्याधिकरणम् ॥8॥ नवमाधिकरणमारचयति- अग्नीषोमाविदं हव्यमजुतामितीरितात् । अपच्छिद्येदमित्यादिः सर्वशेषो भवेन्न वा ॥ २३ ॥ प्रक्रियातो भवेन्मैवं प्रक्रियाऽन्तरिता त्रिभिः । वाक्यं द्वयन्तरितं तेन भवेत्प्रकरणाद्वलि ॥ २४ ॥ सूक्तवाके श्रूयते-(१)“अग्नीषोमाविदं हविरजुषेतां अवीवृधेतां महो ज्यायोऽक्राताम् , इन्द्राग्नी इदं हविरजुषेतां अवीवृधेतां महो ज्यायोऽक्राताम्" इति । तत्र देवतावाचकमग्नीषोमादिपदं पौर्णमास्यादिकाले यथादेवतं विभज्य प्रयोक्तव्यम् इति पूर्वपादे निर्णीतम् । यत्तु 'इदं हविः' इत्यादिकमवशिष्टं पदजातं, तदग्नीषोममन्त्रगतमप्यमावास्यायामग्नीषोमपदपरित्यागेन पठनीयम् । एवम् इन्द्रा. ग्निमन्त्रगतमपि पौर्णमास्यामिन्द्राग्निपदपरित्यागेन पठनीयम् । तथासत्येषां मन्त्रभा. गानां सर्वशेषत्वबोधको दर्शपूर्णमासप्रकरणपाठोऽनुगृह्यत इति प्राप्ते- ब्रूमः- अग्नीषोममन्त्रशेषस्येन्द्राग्निपदान्वयाश्रवणात् । प्रकरणेन प्रथमं तदन्वय. रूपं वाक्यं कल्पनीयम् । तेन च वाक्येनेन्द्रादिप्रकाशनसामर्थ्यरूपं लिङ्गं कल्प्यते । १. तै. ब्रा. ३. ५. १० -