समाख्याधिकरणम् । तृतीयोऽध्यायः। १५५ योरहं देवयज्यया वृत्रहा भूयासम्" इति । तत्र यथा वाक्यद्वयानुसन्धानसम्पन्नं प्रक- रणं पृथक्प्रमाणम् , तथा प्रकरणद्वयानुसन्धानसंपन्नः क्रमः कुतो न मानं स्यात् ? न चाऽस्य प्रकरणेऽन्तर्भावः, द्वयोर्वाक्ययोरिव प्रकरणयोरेकवाक्यत्वाभावात् । तस्मात्क्रम- प्रमाणेन मध्यवर्तिन उपांशुयाजस्य मध्यवर्ती मन्त्रोऽङ्गम् । 'समानदेशत्वं क्रमः' इति क्रमस्य स्वरूपम् । तच्च द्विविधम्-पाठकृतमर्थकृतं च । तत्र पाठकृतमपि द्विविधम्- यथासंख्यं सन्निधिश्चेति । तयोराद्यस्य दब्धिमन्त्र उदाहरणम् । (१) “शुन्धध्वं दैव्याय कर्मणे" इत्ययं मन्त्रः शोधनीयेषु वस्तुषु साधारणो भासते । तत्र सान्नाय्यपात्राणि कुम्भीशाखापवित्रादीन्यनन्तरेषु (२)“मातरिश्वनः" इत्यादिमन्त्रेष्ववभासन्त इति स. न्निधिना तत्पात्रप्रोक्षणे "शुन्धध्वम्” इति मन्त्रो विनियुज्यते । अनुष्ठानसादेश्यात्(३) पशुर्धाणामग्नीषोमीयाङ्गत्वम् । तदेवं क्रमस्य त्रैविध्यं द्रष्टव्यम् ॥ इति पञ्चमं क्रमाधिकरणम् ॥ ५॥ अथ षष्ठं समाख्याधिकरणम् ॥ ६ ॥ षष्टाधिकरणमारचयति- वेदत्रयोक्तधर्माणामृत्विग्भिः सङ्गतिस्त्रिभिः । अनियत्या नियत्या वा, नियतिर्नाऽनिरूणात् ॥ १५॥ हौत्रत्वादिसमाख्यानं नियतेर्गमकं स्वतः । निर्वाधं चाऽन्यवत्तच्च तेनाऽत्र विनियोजकम् ॥ १६ ॥ याज्यापुरोनुवाक्यापाठादयो धर्मा ऋग्वेदे प्रोक्ताः । दोहाननिर्वापादयो यजुर्वेदे । आज्यस्तोत्रपृष्ठस्तोत्रादयः सामवेदे । तत्र 'अस्यैवैते धर्माः' इति नियामकस्य दुर्निरूप- त्वाद्येन केनाऽप्यृत्विजा यः कोऽपि धर्म इच्छया संगच्छते इति चेत्- मैवम् ; 'होत्रम् , आध्वर्यवम् , औद्गात्रम्' इति समाख्यानेन नियतिर्बोध्यते । न च समाख्यानस्य बाधकं किंञ्चित्पश्यामः । तस्मादबोधकत्वबाधितत्वयोरप्रामाण्यकार- णयोरभावाच्छ्रुतिलिङ्गादिपञ्चकवत्प्रमाणेन समाख्यानेन धर्मा व्यवस्थाप्यन्ते ॥ इति षष्ठं समाख्याधिकरणम् ॥ ६ ॥ १. तै.सं. १. १. ३. १. २. तै. सं. १.१.३. ३. पशुधर्माः पशुयागाङ्गानि उपाकरणनियोजनपर्यग्निकरणादीनि ।
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१५६
दिखावट