पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५४ सविस्तरायां जैमिनीयन्यायमालायां [अ.३. पा. ३. अधि. ५ कि वा दर्शपूर्णमासयोरुपकरणम् ? इत्याकाङ्क्षायां सम्पन्नं वाक्यैकवाक्यतारूपं प्रकर- णम् । तेन च प्रयाजादीनामङ्गत्वं प्रतीयते । इति चतुर्थं प्रकरणाधिकरणम् ॥ ४ ॥ - अथ पञ्चमं क्रमाधिकरणम् ॥ ५॥ पञ्चमाधिकरणमारचयति- दब्धिर्नामेति मन्त्रोऽङ्गमुपांशुयजतेर्न वा । साधारणत्वाल्लिङ्गादेमार्नाभावादनङ्गता ॥ ११ ॥ मन्त्राणां कर्मणां चाऽत्र क्रमेणाऽऽम्नानमीक्ष्यते । प्रक्रियावत्क्रमो मानं यथासंख्यं ततोऽङ्गता ।। १२ ॥ क्रमः समानदेशत्वं पाठादर्थाच्च पाठतः । यथासंख्यं संनिधिश्च यथासंख्यमुदाहृतम् ॥ १३ ॥ शुन्धध्वमिति सान्नाय्यपात्राङ्गं संनिधर्मतम् । पशुधर्मोऽर्थसादेश्यादग्नीषोमीयतो भवेत् ।। १४ ॥ दर्शपूर्णमासयो (१)याजमाने मन्त्रकाण्डे कश्चिन्मन्त्र आम्नायते-(२)"द. ब्धिरस्यदब्धो भूयासम् , अमुं दभेयमिति । अस्य मन्त्रस्योपांशुयाजाङ्गातायां श्रुति- वाक्ये न विद्येते। ब्राह्मणे विनियोगमनाम्नायाऽर्थविवरणस्यैवाऽऽम्नानात् । (३)"एत या वै दब्ध्या देवा असुरानदभ्नुवन् । तयैव भ्रातृव्यं दभ्नोति” इति ब्राह्मणम् । दब्धिर्घातुकमायुधम् । आग्नेयाग्नीषोमीययोरप्यनिष्टनिवारकत्वाल्लिङ्गं साधारणम् । प्रक- रणं च त्रयाणामेकमेव । ततो मानाभावादयं मन्त्रो नोपांशुयाजाङ्गमिति प्राप्ते- ब्रूमः—आध्वर्यवे काण्डे आग्नेयोपांशुयाजाग्नीषोमीयकर्माणि क्रमेणाऽऽम्ना- तानि । याजमाने च काण्डे तद्विषया मन्त्राः क्रमेणाऽऽम्नाताः-(४)"अग्नेरहं देवय- ज्ययाऽन्नादो भूयासम्” “दब्धिरस्यदब्धो भूयासममुं दभेयम्"(५)“अग्नीषोम १. यजमानेन पठितव्यानां मन्त्राणामनुष्ठेयानां च कर्मणां यत्र पाठः तद्याजमान काण्डमित्युच्यते । यत्राऽध्वर्युणा कर्तव्यानि कर्माणि, पठनीयाश्च मन्त्राः पठिताः तदा ध्वर्यवं काण्डमित्युच्यते । २. तै.सं. १. ६. २. ४. अदब्धः अहिंसितः, अमुं शत्रुम् । ३. ते.. सं. १. ६. ११. ६. ४. तै. सं. १. ६. २. ३. ५. ते. सं. १. ६. २. ४. -