प्रकरणाधिकरणम् ] तृतीयोऽध्यायः । अथ तृतीयं ज्योतिष्टोमस्य याजुर्वेदिकताधिकरणम् ॥ ३ ॥ तृतीयाधिकरणमारचयति- ज्योतिष्टोमो यजुस्सामवेदयोरस्ति तत्र किम् । उच्चैस्त्वमुत नीचैस्त्वं हेत्वभावादनिर्णयः ॥ ७॥ यजुष्यधिगते द्रव्यदेवते तत्र तद्विधिः । तद्वशात्स्वरनिर्णीतेरुपांशु स्यादनुष्ठितिः ॥ ८ ॥ "ज्येतिष्टोमेन स्वर्गकामो यजेत' इत्येतद्वाक्यं वेदद्वये समाम्नातम् । तत्र को विधिः ? कश्च गुणविधानायाऽनुवादः ? इति जिज्ञासायां नियामकहेतोरप्रतिभानात् 'एतस्य वेदस्य धर्मोऽनुष्ठेयः' इत्यनिर्णय इति चेत्- न; सोमद्रव्यस्य, इन्द्रवाय्वादिदेवतायाश्च यजुर्वेदाधिगतत्वादङ्गबाहुल्यश्रवणाच्च तत्रैव विधिरिति उपांशुप्रयोगः ॥ इति तृतीयं ज्योतिष्टोमस्य याजुर्वेदिकताधिकरणम् ॥ ३ ॥ अथ चतुर्थ प्रकरणाधिकरणम् ॥ ४॥ चतुर्थाधिकरणमारचयति- न क्रत्वङ्गं प्रयाजादि क्रत्वङ्गं वा, न चाऽङ्गता । प्रक्रियाया अमानत्वान्नैराकाङ्क्ष्येण वाक्ययोः॥९॥ प्रयाजादेः फलेऽपेक्षा कथंभावेऽपि च क्रतोः । तेन प्रकरणाम्नानं तस्मादङ्गाङ्गिता तयोः ॥१०॥ सार्धपादद्वये विनियोजकत्वेनोक्तानि यानि श्रुतिलिङ्गवाक्यानि, तेभ्योऽतिरिक्तं प्रक- रणनामकं किंचित्प्रमाणं न वेदे पश्यामः । न हि पदतत्सामर्थ्यान्वयैरसंसृष्टः कश्चिद्वेद. भागः केनचिदाम्नायते । एकवाक्यतामापन्नो वाक्यसमूहः प्रकरणमिति चेत्- न ; वाक्ययोः सतोः पश्चादेकवाक्यताया अभावात् । न हि “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' “समिधो यजति' इत्यनयोर्वाक्ययोः परस्पराकाङ्क्षाऽस्ति, येन वाक्यैकवाक्यता कल्प्येत तस्मात् न प्रयाजादीनां दर्शपूर्णमासाङ्गत्वम् इति प्राप्त- ब्रूमः :-अयाजादयः फलहेतवः, पुरुषप्रवृत्तिरूपत्वात् , सेवादिवत् । दर्शपूर्णमा- सावुपकरणैरुपकार्यौ, करणत्वात् , प्रदीपोपकृतचक्षुर्वत्। तथासति किं प्रयाजादेः फलम् ? 1
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१५४
दिखावट