पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५२ सविस्तरायां जैमिनीयन्यायमालायां [अ. ३. पा.३. अधि. २ । त्वात् । उमक्रमे हि वेदशब्दः श्रुतः-"त्रयो वेदा असृज्यन्त । अग्नेर्ऋग्वेदः । वायोर्य- जुर्वेदः । आदित्यात्सामवेदः” इति । अत उपक्रमगतवेदानुसारेण विध्युद्देशगतानाम- प्यूगादिशब्दानां वेदपरत्वे सत्यूचोऽपि यजुर्वेदोत्पन्ना उपांशु पठनीयाः । ननु उपक्र- मोऽत्राऽर्थवादत्वादुर्बलः, उपसंहारो विध्युद्देशत्वात्प्रबल इति चेत्-वाढम् ; लब्धा. त्मनो हि विध्युद्देशस्य प्राबल्यम् । इह तु प्रथमतो बुद्धयुत्पादक उपक्रमः। तदानीम- लब्धात्मत्वान्न तस्य बाधकत्वम् । पश्चात्तु वाक्यैकत्वाय तदविरोधेनैवाऽऽत्मानं लप्स्य- ते । तदेवमुपक्रमोपसंहारैकवाक्यताबलेन निर्णयाद्वाक्यविनियोगोऽयम् ॥ इति प्रथममुपक्रमधिकरणम् ॥ १ ॥ अथ द्वितीयं गुणमुख्यव्यतिक्रमाधिकरणम् ॥ २॥ द्वितीयाधिकरणमारचयति- यजुर्वेदस्थमाधानं तदङ्गं साम तत्र किम् । उच्चैरुपांशु वा गानमुच्चैः शीघ्रप्रतीतितः ॥ ४ ॥ उत्पत्तर्विनियोगोऽत्र प्रबलोऽनुसूतिर्य॑तः । मुख्यस्याऽङ्गेन कर्तव्या तस्माद्गान उपांशुता ॥५॥ आधानस्याऽत्र मुख्यत्वं गानस्य गुणताऽथवा । विनियोगस्य मुख्यत्वमुत्पत्तेर्गुणताऽस्त्विह ॥ ६॥ आधाने वामदेव्यादिसामान्यङ्गत्वेन विहितानि । तत्र यद्यप्येतानि यजुर्वेदगत- स्याऽऽधानस्याऽङ्गानि, तथाऽपि सामवेदे तेषामुत्पन्नत्वात् , उत्पत्तेश्च शीघ्रबुद्धिहेतुत्वा- त्सामवेदधर्मेण गेयानि इति चेत्- न; विनियोगस्य प्रबलत्वात् । स च यजुर्वेदे श्रुतः-(१)“य एवं विद्वान्वामदेव्यं गायति' इति । गुणेन हि मुख्यस्याऽनुसरणं न्याय्यम् । को गुणः, किं मुख्यम् ? इति चेत्-अत्राऽङ्गित्वादाधानं मुख्यम् , सामगानमङ्गत्वेन गुणः। तथा सति(२) "धर्मःशिर' इत्यादय आधानाङ्गभूता मन्त्रा यथोपांशु पठ्यन्ते, तथा सामान्यप्यधानानुसारेणोपांशु गेयानि । अथवा विनियोगोऽनुष्टापकविधित्वान्मुख्यः, उत्पत्तिविधिस्तथाविधत्वाद्गुणः । तस्मात् अत्र विनियोगवेदानुसारेणोपांशु गेयानि ॥ इति द्वितीयं गुणमुख्यव्यतिक्रमाधिकरणम् ॥ २ ॥ - १. मैं. सं. १. ६. ७. २. ते. ब्रा. १. १. ७. १.